प्रयागराज–माघ–मेलापके ख्यातिलब्ध–कलाकारैः रंगारङ्ग–कार्यक्रमाः प्रस्तोस्यन्ते - जयवीरसिंहः
लखनऊ, ०३ जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य पर्यटन–संस्कृति–मन्त्री जयवीरसिंहः अवदत् यत् प्रयागराजे आयोज्यमाने माघ–मेलापके भव्याः सांस्कृतिक–प्रस्तुतयः आयोजिताः क्रियन्ते। सः अवदत् यत् उत्तरप्रदेश–संस्कृति–विभागेन कला–साहित्य–जगत्सम्बद्धानाम् अतिविश
जयवीर सिंह


लखनऊ, ०३ जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य पर्यटन–संस्कृति–मन्त्री जयवीरसिंहः अवदत् यत् प्रयागराजे आयोज्यमाने माघ–मेलापके भव्याः सांस्कृतिक–प्रस्तुतयः आयोजिताः क्रियन्ते। सः अवदत् यत् उत्तरप्रदेश–संस्कृति–विभागेन कला–साहित्य–जगत्सम्बद्धानाम् अतिविशिष्टानां ख्यातिलब्धानां च कलाकाराणां चयन–प्रक्रियायाः तथा मानदेय–निर्धारणस्य अन्तर्गतं विविधाः सांस्कृतिक–कार्यक्रमाः आयोजिताः भविष्यन्ति। एतानि आयोजनानि भारतीय–संस्कृतेः, सनातन–परम्परायाः तथा आध्यात्मिक–चेतनायाः त्रिवेणी–सङ्गमस्य सजीवप्रतीकानि भविष्यन्ति।

अस्मिन् सांस्कृतिक–कार्यक्रमे शास्त्रीय–सङ्गीतस्य (ध्रुपद्, खयाल्), वाद्य–सङ्गीतस्य (सितार्, सरोद्, बाँसुरी, पञ्चनाद्, वाद्यवृन्दम्), शास्त्रीय–नृत्यस्य तथा नृत्य–नाटिकायाः (कथक्, ओडिसी), लोक–नृत्यानां (ढेढिया, कर्मा, मयूर, फरुवाही, अवध–लोकनृत्यम्, पुष्प–होली, पाई–दण्डा), भजनानां, कबीर–वाणी–पाठस्य, सुन्दरकाण्ड–पारायणस्य, शङ्ख–वादनस्य, शास्त्रीय–उपशास्त्रीय–गायनस्य, भजन–तथा देशभक्ति–प्रस्तुतीनां च समावेशः भविष्यति।एतेषां कलाकाराणां प्रस्तुतयः लोक–भक्ति–शास्त्रीय–समकालीन–सङ्गीतस्य विविध–विधाभिः माघ–मेलापकस्य सांस्कृतिक–सन्ध्याः विशेषतया आकर्षकाः, भावपूर्णाः तथा स्मरणीयाः करिष्यन्ति। कलाकार–सूच्यां सुप्रसिद्धा लोक–गायिका मालिनी–अवस्थी, शास्त्रीय–भक्ति–सङ्गीतस्य चर्चिता गायिका ममता–जोशी, मैहर–परिवारस्य परम्परया सम्बद्धं ‘मैहर–बैण्ड' (उत्तम–पाण्डेयः), भजन–सम्राट् अनूप–जलोटा, तथा युवावर्गे अत्यन्तं लोकप्रियः आध्यात्मिक–लोक–फ्यूज़न्–समूहः ‘कबीर–कैफे’ इत्यादयः सम्मिलिताः सन्ति।

मकर–संक्रान्तेः अनन्तरं ऋषि–सिंहस्य, मौनी–अमावस्यायाः अनन्तरं सुरेश–शुक्लस्य, प्रतिभा–सिंह–बघेलस्य तथा पियूषा–कैलाशस्य, तथा वसन्त–पञ्चम्याः अवसरे ‘सैम–वर्कशॉप’, ‘साधो–बैण्ड’, शिवम्–मिश्रः (‘अन्दाज़–बैण्ड्’), स्वाति–मिश्रा तथा आकाङ्क्षा–त्रिपाठी–इत्यादीनां विशिष्ट–प्रतिभानां प्रस्तुतयः आयोजयितुं प्रस्ताविताः सन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani