रजनाथ सिंहो दिल्ली विधानसभायाम् अटलजी, मालवीय जी इत्यनयोः चित्रयोः अनावरणम्
नव दिल्ली, 03 जनवरीमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहेन दिल्ल्याः विधानसभायां शनिवासरे भारतरत्न-सम्भ्रान्तयोः अटलविहारी-वाजपेयी तथा महामना पण्डित-मदनमोहन-मालवीययोः चित्रयोः अनावरणं कृतम्। रक्षामन्त्रिणा ‘भारतमाता’ इति शीर्षकयुक्तस्य विशेषस्य क
दिल्ली विधानसभा में रक्षा मंत्री  रजनाथ सिंह ने अटलजी और मालवीयजी के चित्रों का अनावरण और भारत माता’ कॉफी टेबल बुक का किया लोकार्पण


नव दिल्ली, 03 जनवरीमासः (हि.स.)।

रक्षामन्त्री राजनाथसिंहेन दिल्ल्याः विधानसभायां शनिवासरे भारतरत्न-सम्भ्रान्तयोः अटलविहारी-वाजपेयी तथा महामना पण्डित-मदनमोहन-मालवीययोः चित्रयोः अनावरणं कृतम्। रक्षामन्त्रिणा ‘भारतमाता’ इति शीर्षकयुक्तस्य विशेषस्य कॉफी-टेबल-पुस्तकस्य अपि लोकार्पणं कृतम्।

अवसरे अस्मिन् रक्षामन्त्री सिंह अवदन् यत् उभौ नेतारौ राज्यों राजकारणं जनसेवायाः मंचरूपेण प्रदत्तवन्तौ। उभाभ्याम् अपि स्वातन्त्र्यसंग्रामस्य अनुभूतिः कृता। एतेषां महापुरुषाणां चित्राणाम् अनावरणं महत् सम्मानम् इति सः उक्तवान्। राष्ट्रं आदर्शेनैव महान् भवति। मालवीयमहाभागेन शिक्षां राष्ट्रसेवारूपेण, अटलमहाभागेन तु राजनितिं जनसेवारूपेण रूपान्तरीकृतम्।

‘भारतमाता’ नाम्नी कॉफी-टेबल-पुस्तिका भारतीयराष्ट्रवादस्य अवधारणां नानाविधैः कलात्मक-सांस्कृतिकाभिव्यक्तिभिः प्रस्तौति इति सुविचारितं प्रकाशनम् अस्ति। अस्मिन् ग्रन्थे चयनितानि चित्रकला-रचनाः, स्थापत्यकृतयः, साहित्यकृतयः च संगृहीताः, येन कला भारतस्य एकतां, सांस्कृतिक-गौरवं, राष्ट्रीय-चेतनां च पीढी-पीढ्यन्तं सुदृढीकर्तुं यथाभूमिकां वहति इति विशेषतया रेखाङ्क्यते।

कार्यक्रमे मुख्यमन्त्रिणी रेखा गुप्ता, दिल्लीविधानसभायाः अध्यक्षः विजेन्द्रगुप्ता, इन्दिरागान्धी-राष्ट्रीय-कलाकेन्द्रस्य अध्यक्षः तथा हिन्दुस्थान-समाचार-समूहसम्पादकः रामबहादुर-राय इति विशेषातिथयः उपस्थिताः आसन्। कार्यक्रमे विधायिकाकार्यमन्त्री प्रवेशसाहिबसिंह, विधानसभा-उपाध्यक्षः मोहनसिंह-बिष्ट सहिताः विधायकाः पार्षदाश्च अपि सन्मिलिताः आसन्।

-----------

हिन्दुस्थान समाचार