Enter your Email Address to subscribe to our newsletters

शिमला, ०३ जनवरीमासः (हि.स.)।हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्री तथा पूर्वकेन्द्रीयमन्त्री शान्ता–कुमारः धर्मशालायां स्थिते एकस्मिन् महाविद्यालये छात्र्या सह अन्याभिः छात्राभिः कृतां रैगिङ्ग–घटनां तथा एकेन अध्यापकेन कृतां प्रताड़नाम् अत्यन्तं दुर्भाग्यपूर्णां लज्जास्पदां च इति निरूपितवान्।
शनिवासरे वक्तव्ये शान्ता–कुमारः अवदत् यत् यदा सः एतत् समाचारं दृष्टवान् तदा लज्जया तस्य शिरः अध: अभवत्, नेत्रे च अश्रुपूर्णे अभवताम्। सः महतीं चिन्तां व्यक्तवान् तथा उक्तवान् यत् शिक्षण–मन्दिरेषु एतादृशीनां घटनानां सम्भवः समाजस्य कृते अत्यन्तं चिन्ताजनकः अस्ति।सः अवदत् यत् एतादृशानां घृणित–कृत्यानां निरोधनाय सर्वकारेण शीघ्रं कठोराश्च कार्यवाही करणीयाः। दोषिणः विरुद्धं अतिशय–कठोराः दण्डाः विधातव्याः, येन शिक्षण–संस्थानानां पवित्रता संरक्षिता भवेत् तथा भविष्ये कोऽपि एतादृशम् अपराधं कर्तुं साहसं न कुर्यात्।
शान्ता–कुमारः सर्वकारमपि आहूतवान् यत् मृतक–छात्र्याः अभिभावकेभ्यः दशदिनानामन्तर्गते समुचितं क्षतिपूरणं प्रदातुं व्यवस्था क्रियताम्। अपरं च, सः हिमाचल–प्रदेश–सर्वकारं प्रति आग्रहं कृतवान् यत् एतादृशानामपराधानां निरोधनार्थं कठोराः अधिनियमाः निर्मीयन्ताम्, येन भविष्ये एतादृश्य: घटनाः न पुनरावर्तयु: तथा प्रदेशस्य छविः न नष्टा गच्छेत्।
अन्ते, शान्ता–कुमारः पीडित–परिवारं प्रति संवेदनां व्यक्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता