Enter your Email Address to subscribe to our newsletters

तिरुवन्नामलाईनगरम्, ०३ जनवरीमास: (हि.स.)।मार्गशीर्षमासस्य पूर्णिमायां पावनेऽवसरे तमिलनाडुराज्यस्य तिरुवन्नामलाई-नगरे आस्थाया अद्भुतं दृश्यं दृष्टिगोचरमभवत्। पञ्चभूत–स्थलेषु एकं, अग्नितत्त्वस्य प्रतिनिधित्वं कुर्वाणेऽस्मिन् पुण्यस्थले प्रातःकालात् एव सहस्रशः श्रद्धालवः अन्नामलाईयार–पर्वतस्य (अरुणाचल–पर्वतस्य) चतुर्दिशं परिक्रमां कृत्वा भगवान् शिवं समाराधयन्।
तिरुवन्नामलाई–स्थितं विख्यातं अरुणाचलेश्वर–मन्दिरं तस्य पृष्ठभागे स्थितं च अन्नामलाईयार–पर्वतं स्वयं शिवस्वरूपं मन्यमानाः भक्ताः प्रतिदिनं सहस्रशः पूजां कर्तुं आगच्छन्ति। मार्गशीर्ष–पूर्णिमायां तु एषा आस्था अधिकं विराटरूपं धारयति। अस्यां पूर्णिमायां सहस्रशः श्रद्धालवः प्रायः १४ किलोमीटर–दीर्घे वृत्ताकार–मार्गे पदयात्रां कृत्वा पर्वत–परिक्रमाम् अकुर्वन्।
देशस्य विविधराज्येभ्यः आगताः श्रद्धालवः
मन्दिर–प्रशासनस्य सूचनानुसारं मार्गशीर्ष–पूर्णिमा शुक्रवार–सन्ध्यायां ०६:४५ वादने आरब्धा, अद्य (शनिवारे) सन्ध्यायां ०४:४३ वादने समाप्तिं यास्यति। अस्मिन् विशेषावसरे केवलं तमिलनाडुतः न, अपि तु आन्ध्रप्रदेशात्, कर्नाटकात्, तेलङ्गानात् च देशस्य अन्येभ्यः प्रदेशेभ्यः लक्षशः भक्ताः तिरुवन्नामलाईनगरं समुपागताः। गतदिने प्रातःकालात् एव नगरे श्रद्धालूनां महान् सम्मर्द: समुत्पन्न:।अष्टलिङ्ग–दर्शनं मन्त्रजपश्चपरिक्रमा–मार्गे स्थितेषु तिरुनेर अन्नामलाईयार–मन्दिरे, आदि–अरुणाचलेश्वरर–मन्दिरेण च सहितं विभिन्नेषु देवालयेषु भक्तैः अग्निलिङ्गम्, एमलिङ्गम्, वायुलिङ्गम्, निर्ऋतिलिङ्गम्, वरुणलिङ्गम्, कुबेरलिङ्गम् इत्यादीभि: सहितं समेषाम् अष्टलिङ्गानां दर्शनं कृतम्। पूर्णिमा–चन्द्रप्रकाशे ‘ॐ नमः शिवाय’ इति मन्त्रजपेन समग्रं वातावरणं भक्तिमयम् अभवत्।
भीषणशीतेऽपि रात्रौ निरन्तरा परिक्रमा
रात्रौ तीव्र–शीतऽपि श्रद्धालूनाम् आस्थायां न्यूनता न दृष्टा। सहस्रशः भक्ताः मार्गशीर्ष–पूर्णिमायां रात्रौ परिक्रमां कुर्वन्तः आरात्रिं पदयात्रां निरन्तरं कृतवन्त:। स्थाने स्थाने भजनैः, मन्त्रघोषैः, दीपप्रकाशैश्च तिरुवन्नामलाई–नगरं शिवमयं समभवत्।
मार्गशीर्ष–पूर्णिमायाम् आयोजितं एतत् गिरिवलयम् केवलं धार्मिक–आस्थायाः प्रतीकं न, अपि तु श्रद्धालूनां कृते आत्मिक–शान्तेः आध्यात्मिक–अनुभूतेश्च विशेषावसरं मन्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता