उप राष्ट्रपति सीपी राधाकृष्णन् तमिलनाडोः सुवर्ण मंदिरस्य अकरोत् भ्रमणम्
वेल्लूरम्, 03 जनवरीमासः (हि.स.)। तमिलनाडु-प्रदेशस्य वेल्लूरमण्डले अनिकट्ट्-तालुकायां श्रीपुरं-नाम्नि स्थिते अरियूर् सुवर्णमन्दिरे शक्त्याम्मायाः पञ्चाशद्वर्षेभ्यः जात्युत्सव-विशेषकार्यक्रमः शनिवासरे महत्या शोभया निरूपितः। राष्ट्रस्य उपराष्ट्रपतिः
उप राष्ट्रपति सी.पी. राधाकृष्णन


वेल्लूरम्, 03 जनवरीमासः (हि.स.)। तमिलनाडु-प्रदेशस्य वेल्लूरमण्डले अनिकट्ट्-तालुकायां श्रीपुरं-नाम्नि स्थिते अरियूर् सुवर्णमन्दिरे शक्त्याम्मायाः पञ्चाशद्वर्षेभ्यः जात्युत्सव-विशेषकार्यक्रमः शनिवासरे महत्या शोभया निरूपितः। राष्ट्रस्य उपराष्ट्रपतिः सी. पी. राधाकृष्णन् इति विशेषातिथिरूपेण तस्मिन् कार्यक्रमे सहभागी अभवत्।

उपराष्ट्रपतिः सी. पी. राधाकृष्णन् हेलिकॉप्टर-मार्गेण सुवर्णदेवालयं प्राप्तवान्। ततः सः पञ्चाशत्-जयंती-विशेष-कार्यक्रमे भागं गृहीत्वा शक्त्याम्मां प्रति विशेषपूजाम् अर्प्य प्रार्थनाम् अकरोत्। राधाकृष्णन् अवदत् तद् “अहं अत्र प्रथमवारं न आगतः, अहं बहूनि वर्षाणि अधुनापि अत्र आगच्छामि। अस्यां जगति भगवतः शक्तेः महत्याः शक्तेः तुलनां कस्यापि शक्तेः सह कर्तुं न शक्यते।” देशस्य प्रधानन्त्री नरेन्द्रमोदी अपि मुख्यमन्त्रिरूपेण अत्र आगत्य विशेषपूजाम् अकरोत् इति स्मारितम्।

कोरोना-कालस्यावसरे शक्त्याम्मया अनेकेभ्यः परिवारेभ्यः भोजनं प्रदत्तम्। केवलं तत्र एव न, किन्तु स्वयम् श्रीलंकां गत्वा तत्रस्थितानां जनानाम् अपि सहायता कृता।

केंद्रीयसूचना-संचारमन्त्री एल् मुरुगन्, उद्योगपति रमसामि, पुथियनीतिदलस्य नेता ए. सी. शनमुगम् इत्येते अपि तस्मिन् कार्यक्रमे सहभागिनः अभवन्। उपराष्ट्रपतिः यात्रासमये वेल्लूर-विमानपत्तने सुवर्णमन्दिरे च सर्वस्मिन् वेल्लूर-नगरे च ११००-अधिकाः प्रहरीणः सुरक्षा-निमित्तं नियोजिताः। विशेषतः सुवर्णमन्दिरस्य समीपे ३००-अधिकाः प्रहरिणः नियुक्ताः। ड्रोन-यानानां उड्डयनम् अपि निषिद्धम्।---------------

हिन्दुस्थान समाचार