Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, ०३ जनवरीमास: (हि.स.)।पौष–पूर्णिमा–पर्वणि शनिवासरे अदलपुरा–स्थिते शीतला–मातृ–देवालये श्रद्धा–भक्त्योः अद्भुतं दृश्यं दृष्टम्। तीव्र–शैत्यं शीतल–वातै: अपि, तथापि बहवः श्रद्धालवः मातुः शीतलायाः दर्शन–पूजनार्थं देवालय–परिसरं प्राप्तवन्तः। अपराह्णे श्रद्धालूनां जनसमूहः अधिकः अभवत्, यत्र भक्ताः मातुः चरणयो: शिरः नत्वा सुख–समृद्ध्यर्थं प्रार्थनां कृतवन्तः।श्रद्धालवः गङ्गा–स्नानानन्तरं देवालय–परिसरे स्थितेषु प्रसाद–आपणेषु नारिकेलं, चुन्नरीं, मालां, पुष्पाणि, मिष्टान्नम्, बेसन–मोदकानि इत्यादीन् प्रसादान् क्रीत्वा दीर्घासु पङ्क्तिषु स्थिताः सन्तः “जय माता शीतला” इति जयघोषान् कुर्वन्तः गर्भगृहं प्राप्नुवन्। तत्र मात्रे भोगं समर्प्य आशीर्वादं लब्धवन्तः। देवालये उपस्थितैः पूजारिभिः विधि–विधानपूर्वकं श्रद्धालूनां दर्शन–पूजनं सम्पन्नीकृतम्।पर्वणः अवसरं दृष्ट्वा देवालय–परिसरे तथा समीपवर्तिषु क्षेत्रेषु सुदृढाः सुरक्षा–व्यवस्थाः कृताः आसन्। क्षेत्राधिकारी मञ्जरी–रावः, कोतवालः विजयशंकर–सिंहः तथा अदलपुरा–चौकी–प्रभारी उपनिरीक्षकः कुमार–सन्तोषः आरक्षीबलेन सह निरन्तरं सुरक्षा–व्यवस्थायां लग्ना: आसन्, येन श्रद्धालूनां कस्यापि प्रकारस्य असुविधा न भवेत्।
हिन्दुस्थान समाचार / Dheeraj Maithani