पौष–पूर्णिमायां विन्ध्यधामे श्रद्धाया: महाप्लवः, पुष्पालङ्कृतायाः मातुः दर्शनाय उत्सुका: श्रद्धालवः
मीरजापुरम्, ०३ जनवरीमासः (हि.स.)। पौष–पूर्णिमा–पर्वणि शनिवासरे जगत्–जनन्याः श्रीविन्ध्यवासिनी–देव्याः धाम्नि श्रद्धा–भक्त्योः अद्भुतः संगमः दृष्टः। प्रभातादेव मातुः दरबारे आस्थाया: महत् प्रवाहः समुत्थितः। देव्याः पुष्पैः कृतः अलौकिकः शृङ्गारः भक्ता
मां विंध्यवासिनी।


विंध्यधाम में दर्शनार्थियों की भीड़।


मीरजापुरम्, ०३ जनवरीमासः (हि.स.)। पौष–पूर्णिमा–पर्वणि शनिवासरे जगत्–जनन्याः श्रीविन्ध्यवासिनी–देव्याः धाम्नि श्रद्धा–भक्त्योः अद्भुतः संगमः दृष्टः। प्रभातादेव मातुः दरबारे आस्थाया: महत् प्रवाहः समुत्थितः। देव्याः पुष्पैः कृतः अलौकिकः शृङ्गारः भक्तान् भाव–विभोरान् अकरोत्। घण्टा–घटिकानां नादैः शङ्खध्वनिना च सह “जय माता विन्ध्यवासिनी” इति जयघोषैः सम्पूर्णः धाम–परिसरः भक्तिमयः अभवत्।

शनिवासरे मङ्गल–आरार्तिक्यान्तरमेव दर्शनार्थिनां निरन्तरं प्रवाहः आरब्धः। तीव्र–शैत्यम् अपि श्रद्धालूनाम् आस्थां विचलितुं न अशक्तम्। नारिकेलं, चुन्नरीं, एला–दानं, रक्षा–रोरीं, प्रसादं च गृहीत्वा भक्ताः मातुः दरबारं प्रति अग्रसराः अभवन्। देवालयस्य उपरितन–भागे अनुष्ठान–पाठयोः क्रमः अनवरतं प्रवर्तते स्म, येन सम्पूर्णे वातावरणे आध्यात्मिक–ऊर्जाया: संचारः जातः।

प्रातः सायं च विन्ध्यधामे श्रद्धालूनां सम्मर्द: अत्यधिक: दृष्ट:। केचित् गर्भगृहे प्रविश्य मातुः चरणयोः शिरः नत्वा प्रार्थनां कृतवन्तः, अन्ये झाङ्की–दर्शनं कृत्वा सुख–समृद्ध्यर्थं कामनां प्रकटितवन्तः। पङ्क्तिबद्धाः श्रद्धालवः मातुः जयकारान् कुर्वन्तः दर्शनार्थं शनैः अग्रे अगच्छन्। श्रीविन्ध्यवासिनी–दर्शनानन्तरं भक्ताः देवालय–परिसरे स्थितेषु अन्येषु देवी–देवता–मन्दिरेषु अपि पूजन–अर्चनं कृतवन्तः। दर्शन–पूजनोत्तरं दूर–दूरात् आगताः श्रद्धालवः विन्ध्याचल–नगरे स्थितासु वीथिषु प्रसाद–धार्मिक–वस्तूनां सम्यक् क्रय–विक्रयं कृतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता