माघ–मेलापकाय झाँसी–क्षेत्रात् बसयान–विभागस्य ५० विशेष–बसयानानां संचालनं भविष्यति
१४ तः २४ जनवरीपर्यन्तं मुख्य–स्नान–पर्वाणि दृष्ट्वा बसयान–विभागस्य विशेष–व्यवस्था झाँसी, ०३ जनवरीमास: (हि.स.)।प्रयागराजे शनिवासरात् आरब्धस्य माघ–मेलापकस्य कृते यातायात–व्यवस्थां सुगमां कर्तुम् उत्तरप्रदेश–सर्वकार: विशेषं बलं ददाति। अस्यैव क्रमस्य
रोडवेज बस की फोटो


१४ तः २४ जनवरीपर्यन्तं मुख्य–स्नान–पर्वाणि दृष्ट्वा बसयान–विभागस्य विशेष–व्यवस्था

झाँसी, ०३ जनवरीमास: (हि.स.)।प्रयागराजे शनिवासरात् आरब्धस्य माघ–मेलापकस्य कृते यातायात–व्यवस्थां सुगमां कर्तुम् उत्तरप्रदेश–सर्वकार: विशेषं बलं ददाति। अस्यैव क्रमस्य अन्तर्गतम् उत्तरप्रदेश–राज्य–मार्ग–परिवहन–निगमेन (रोडवेज) झाँसी–क्षेत्रात् माघ–मेलापकाय पञ्चाशत विशेष–बसयानानां संचालनं कर्तुं निश्चयः कृतः। श्रद्धालूनां सुविधां दृष्ट्वा एतानि बसयानानि मुख्य–स्नान–पर्वाणि मनसि निधाय १४ जनवरीतः २४ जनवरीपर्यन्तं सञ्चालिताः भविष्यन्ति।

परिवहन–निगमस्य झाँसी–क्षेत्रात् ३० बसयानानि झाँसी–नगरात्, ५ बसयानानि उरई–नगरात् तथा १५ बसयानानि बाँदा–नगरात् सञ्चालितानि भविष्यन्ति। एवमेव झाँसी–क्षेत्रात् माघ–मेलापकं गन्तुम् इच्छतां श्रद्धालूनां कृते आहत्य ५० विशेष–बसयानानां व्यवस्था कृता अस्ति। मकर–संक्रान्ति, मौनी–अमावस्या तथा वसन्त–पञ्चमी–पर्वसु भवतां स्नान–पर्वाणाम् अवसरं दृष्ट्वा बस–विभागेन एते विशेष–प्रबन्धाः कृताः।

अस्मिन् विषये झाँसी–क्षेत्रीय–प्रबन्धकः सन्तोषकुमारः शनिवासरे अवदत् यत् माघ–मेलापकं प्रति मुख्य–स्नान–पर्वाणि मनसि कृत्वा बसयान–विभागेन श्रद्धालूनां कृते विशेष–व्यवस्थाः सुनिश्चिताः सन्ति। तदनुसारं झाँसी–क्षेत्रात् १४ जनवरीतः २४ जनवरीपर्यन्तं ५० विशेष–माघ–मेला–बसायानानां संचालनं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता