Enter your Email Address to subscribe to our newsletters

डीजीपी दीपम सेठस्य अध्यक्षतायाम् उच्च स्तरीया समीक्षागोष्ठी
देहरादूनम्, 03 जनवरीमासः (हि.स.)। पुलिसमहानिदेशकेन दीपम् सेठेन आगामिवर्षाय निश्चिता उत्तराखण्डपुलिसदलस्य प्राथमिकताः सम्बन्ध्य शनिवासरे सरदारपटेलभवने पुलिसमुख्यालयस्य वरिष्ठाधिकारिभिः सह उच्चस्तरीया समीक्षा-सभा आचरिता। सभायां पुलिसमुख्यालयस्य सर्वेषां शाखानां कार्यप्रणाल्यां दक्षता स्पष्ता समयानुबद्धता चेति सुनिश्चितुं आवश्यकाः उपायाः विस्तरेण चर्चिताः।
सभायां डीजीपी इत्येषः आतंकवादविरोधसम्मेलनस्य २०२५ अवसरे केन्द्रीयगृहस्य मन्त्रिणा दत्तानां निर्देशानां पालनस्य प्रसंगे राज्यस्य आन्तरिकसुरक्षादृष्ट्या साइबरनिरिक्षणस्य च साइबरबुद्धिसंग्रहस्य च विषये विशेषप्राथमिकता दातव्या इति निर्दिष्टम्। एटीएस एएनटीएफ च ट्राफिक-निदेशालयस्य पुनर्गठनम् विषये विशेषबलं दत्तम्। आतंकवादविरोधसम्मेलन २०२५ इत्यत्र केन्द्रीयगृहस्य मन्त्रिणा एटीएससंरचनायाम् एकरूपतायाः विषये दत्तानाम् निर्देशानाम् अनुरूपं कार्यं कर्तव्यम् इति तथा मुख्यमन्त्रिणः ड्रगफ्री उत्तराखण्ड इति दृष्टेः साकारार्थम् एएनटीएफ इत्येतत् वर्षे अधिकं सुदृढीकर्तव्यमिति अपि निर्देशाः प्रदत्ताः।
ते अवदन् यत् शीघ्रमेव मुख्यमन्त्रिणः अध्यक्षतायां राज्यस्य वरिष्ठपुलिसाधिकारिणां उच्चस्तरीया सभा आयोजितव्या। तस्मिन् डीजीपी-आईजीपी सम्मेलन २०२५ इत्यस्य अजेंडुबिन्दूनां समीक्षा कृता तेषां प्रभावीकार्यन्वयनं भविष्यत्पुलिसनीतिश्च अन्तिमरूपेण निश्चिता भविष्यति। साइबरअपराधानां शीघ्रपरिवाद-निस्तारणार्थं १९३० हेल्पलाइन अधिकप्रभावशालिनी कर्तव्या इति तथा ११२ इमरजेन्सी-सिस्टेम इत्यनेन सह तस्य उत्तमं तांत्रिकं समन्वयनं करणीयमिति विशेषबलं दत्तम्।
मुख्यालयस्तरे सर्वे अधिकारिणः स्वस्वानुभागान् सम्बद्धान् प्रस्तावान् प्राथमिकताः लक्ष्यानि च अनुकूल्य दृढञ्च समयानुबद्धञ्च कार्ययोजनं शीघ्रं प्रस्तोतव्यं इति उक्तवन्तः। तथा वित्तीयवर्षस्य समाप्तेः पूर्वं (३१ मार्चपर्यन्तम्)राजस्वक्रयप्रणाली अन्य-वित्तीयकार्यानि च शीघ्रं गुणवत्तासहितं निस्तारितव्यानि इति सुनिश्चितम्।
हिन्दुस्थान समाचार