Enter your Email Address to subscribe to our newsletters

सिलीगुड़ी, 3 जनवरीमासः (हि.स.)। पश्चिमबंगालस्य सिलीगुडी नगरस्य मध्ये शनिवासरे हस्तीनां मानवसमुदायस्य च मध्ये सह-अस्तित्वं सुदृढीकर्तुं उद्दिश्य वाइल्डलाइफ ट्रस्ट ऑफ इंडिया (डब्ल्यूटीआई) संस्थया ‘गजोत्सव’ नामकस्य उत्सवस्य आरम्भः कृतः। तस्मात् पूर्वं एषः जागरूकतासंरक्षणाभियानः तमिलनाडु-केरल-मेघालय-ओडिशा-उत्तराखण्डराज्येषु सफलतया आयोजितोऽभूत्।
पश्चिमबंगाले ‘गजोत्सवस्य’ शुभारम्भः उत्तरबंगविश्वविद्यालयस्य रवीन्द्र-भानु-मञ्चे आयोजितेन विशेषकार्यक्रमेन अभवत्। अस्मिन् अवसरे वनविभागस्य मुख्यवनसंरक्षकः (सीसीएफ) बाला मुरुगन, वाइल्डलाइफ ट्रस्ट ऑफ इंडियस्य उपाध्यक्षः डा. सन्दीपकुमार तिवारी, कटिहारविभागस्य एडीआरएम अजयसिंह इत्येते सहिताः अनेकाः गौरवशालीजनाः उपस्थिताः आसन्।
कार्यक्रमे वनविभागस्य, रेलविभागस्य, विश्वविद्यालयस्य च विविधानां विभागानां सक्रियसहभागिता दृष्टा। आयोजकैः उक्तं यत् गजोत्सवस्य प्रमुखोऽभिप्रायः मानवहस्तिद्वयोर् मध्ये उत्तमं समन्वयं संस्थापयितुं सर्वासु संस्थासु समुदायेषु च एकत्रतां निर्माय संरक्षणप्रयत्नान् प्रवर्धयितुं च अस्ति।
डब्ल्यूटीआई संस्थया स्पष्टीकृतं यत् वनेषु संरक्षणं कृत्वा हस्तीनां मानवानां च जीवनरक्षणमेव अस्य अभियानस्य मुख्यलक्ष्यम्। तत्रैव मुख्यवनसंरक्षकः बाला मुरुगन अवदत् — गजोत्सवस्य सफलता केवलं शासनस्य वा वनविभागस्य प्रयासैः न संभवति, अपितु सर्वेषां समाजवर्गाणां सहभागिता अत्यावश्यकाऽस्ति।
‘गजोत्सव’ अभियानस्य उद्देश्यं हस्तीनां पारम्परिकान् गमनमार्गान् तेषां अधिकारांश्च संरक्षितुं अपि अस्ति। इदानीन्तनवर्षेषु वर्धमानैः मानवीयक्रियाकलापैः तथा प्राकृतिकवासस्थानानां ह्रासेन मानव–हस्ति-संघर्षस्य घटनाः अभिवृद्धिम् आपन्नाः। तादृशस्थितौ ‘गजोत्सव’ एतेषु चुनौतिषु समाधानप्रयत्नान् कृत्वा अस्य प्रतीकप्रजातेर् हस्तेः सुरक्षितं सकारात्मकं च दीर्घकालिकं भविष्यं सुनिश्चितुं महत्वपूर्णां भूमिकां वक्ष्यति।---------------
हिन्दुस्थान समाचार