Enter your Email Address to subscribe to our newsletters

-केदारघाटस्थिते श्रीविद्यामठे ‘तोटकाष्टकस्य’ सामूहिकः सस्वर–पाठः, विशेष–पूजनं च
वाराणसी, ०३ जनवरीमासः (हि.स.)।उत्तरप्रदेशस्य आध्यात्मिक–नगरे वाराणस्यां केदारघाटस्थिते श्रीविद्यामठे शनिवासरे आदिगुरोः शङ्कराचार्यस्य परमशिष्यस्य तथा ज्योतिर्मठस्य प्रथमाचार्यस्य श्रीमत:–तोटकाचार्यस्य पट्टाभिषेक–दिवसः श्रद्धा–भक्ति–वैदिक–गरिमया सह आचरितः।
अस्मिन् अवसरे मठ–परिसरे आदिवसं विविधाः धार्मिक–आध्यात्मिक–कार्यक्रमाः आयोजिता: आसन्। प्रातःकाले श्रीमत: तोटकाचार्यस्य प्रतिमायाः विधिवत् विशेष–पूजनं कृतम्। तदनन्तरं मठस्य शिष्यैः ‘तोटकाष्टकम्’ इत्यस्य सामूहिकः सस्वर–पाठः सम्पन्नः, येन समग्रं वातावरणं भक्तिमयमभवत्।
अवसरेऽस्मिन् मठस्य प्रभारी परमात्मानन्दः अवदत् यत् आचार्य–गिरिः (तोटकाचार्यः) स्वस्य अनन्य–गुरुभक्त्या ‘तोटक’–छन्दसा स्तुतिं कृत्वा अद्वैत–वेदान्तं सरल–सुलभ–रूपेण प्रस्तुतवान्।
ज्योतिषपीठाधीश्वरः शङ्कराचार्यः स्वामी अविमुक्तेश्वरानन्दः सहारनपुरे स्थिते शाकम्भरी–शक्तिपीठे आराधनानन्तरम् आभासी–माध्यमेन तोटकाचार्यं नत्वा अवदत् यत् तस्य जीवनं सेवा–समर्पण–गुरुनिष्ठायाः पराकाष्ठायाः उत्कृष्टं उदाहरणम् अस्ति।
तेन उक्तं यत् सामान्यतः जनानां धारणा अस्ति यत् तोटकाचार्यः अल्पज्ञानी आसीत्, किन्तु वास्तविकता एषा यत् सः स्वं ज्ञानं प्रकटयितुं न इच्छति स्म। आदिशङ्कराचार्यस्य आज्ञया सः केवलं तोटक–छन्दसा स्तुतिं न कृतवान्, अपि तु ‘श्रुतिसार–समुद्धरण’–इत्यादिग्रन्थस्य रचनां कृत्वा सम्पूर्ण–वेदान्त–ज्ञानस्य सारं प्रस्तौति स्म। एतेन सः सिद्धवान् यत् गुरुकृपया सेवां कुर्वन् अपि उच्चतमं ज्ञानं प्राप्यते।
अस्मिन् अवसरे मठे भण्डारस्य आयोजनं कृतं, यत्र स्थानीयाः श्रद्धालवः तथा शिष्याः प्रसादं स्वीकृतवन्तः। सायंकाले विशेष–आरार्तिक्य सह उत्सवस्य समापनं कृतम्।
कार्यक्रमे दण्डी–स्वामी दुर्गानन्द–सरस्वती, साध्वी पूर्णाम्बा, साध्वी शारदाम्बा, ब्रह्मचारी परमात्मानन्दः, मठ–प्रबन्धकः कृष्ण–कुमार–द्विवेदी, हजारी–कीर्ति–नारायणः, संजय–पाण्डेयः सहितं बहवः सन्त–महात्मानः श्रद्धालवश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता