प्रधानमन्त्री नरेन्द्रमोदी १७ जनवरीतमे दिनाङ्के गुवाहाटीनगरम् आगमिष्यति, बागुरुम्बानृत्यं च द्रक्ष्यति
गुवाहाटीनगरम्, ०४ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदीमहोदयस्य उपस्थितौ गुवाहाटी-नगरे स्थिते सरुसजाई–क्रीडाङ्गणे १७ जनवरीतमे दिनाङ्के पारम्परिकस्य बागुरुम्बा–नृत्यस्य भव्यम् आयोजनं भविष्यति। अस्मिन् अवसरे असम-प्रदेशस्य समृद्धा सांस्कृतिक–
फाइल तस्वीर: प्रधानमंत्री नरेन्द्र मोदी


गुवाहाटीनगरम्, ०४ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र–मोदीमहोदयस्य उपस्थितौ गुवाहाटी-नगरे स्थिते सरुसजाई–क्रीडाङ्गणे १७ जनवरीतमे दिनाङ्के पारम्परिकस्य बागुरुम्बा–नृत्यस्य भव्यम् आयोजनं भविष्यति। अस्मिन् अवसरे असम-प्रदेशस्य समृद्धा सांस्कृतिक–परम्पराऽपि प्रदर्शिता भविष्यति।

मुख्यमन्त्री डॉ.हिमन्त–बिस्व–सरमा अद्य सामाजिक–माध्यमे स्वस्य संदेशे अवदत् यत् अस्य आयोजनस्य पूर्वसज्जा: चिराङ्ग–जनपदे तीव्रतया प्रचलन्ति। काजलग्राम–बिजनी–क्षेत्राभ्यां प्रायः षट्शतं (६००) नर्तका: अस्य विशेषप्रस्तुत्यै निरन्तरमभ्यासे संलग्नाः सन्ति। कलाकाराः समन्वितां मनोहरां च प्रस्तुतिं सुनिश्चेतुं कठोरं परिश्रमं कुर्वन्ति।

एषः सांस्कृतिक–कार्यक्रमः प्रधानमन्त्रिणा सहितम् उपस्थितानां गणमान्य–अतिथीनां समक्षं असम–प्रदेशस्य जनजातीय–परम्पराः सांस्कृतिक–विविधतां च राष्ट्रीय–मञ्चे प्रस्तोष्यन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA