आंध्र प्रदेशस्य भोगपुरमविमानपत्तनके अवतीर्णं प्रथमं परीक्षणविमानं, जूनमासे भविष्यति उद्घाटनतिथिः
प्रथमतः वैलिडेशन विमानतः अत्र प्राप्नोत् केंद्रीय उड्डयन मंत्री नायडूःग्रीनफील्डान्ताराष्ट्रियविमानपत्तनस्य 26 जूनमासे करिष्यति द्घाटनम् विशाखापत्तनम्, 04 जनवरीमासः (हि.स.)। उत्तर आन्ध्रप्रदेशस्य विजयनगरम् जनपदे निर्मिते भोगापुरम् विमानपत्तने र
Bhogapuram


प्रथमतः वैलिडेशन विमानतः अत्र प्राप्नोत् केंद्रीय उड्डयन मंत्री नायडूःग्रीनफील्डान्ताराष्ट्रियविमानपत्तनस्य 26 जूनमासे करिष्यति द्घाटनम्

विशाखापत्तनम्, 04 जनवरीमासः (हि.स.)।

उत्तर आन्ध्रप्रदेशस्य विजयनगरम् जनपदे निर्मिते भोगापुरम् विमानपत्तने रविवासरे प्रथमा मान्यतापरीक्षणविमानस्य अवतरणम् अभवत्। अस्मिन् विमानपत्तनक केन्द्रीयनागरिकविमानयानमन्त्री के. राममोहन नायडू तथा विजयनगरम् लोकसभासदः के. अप्पलानायुडी अन्ये च उच्चाधिकारिणः नूतनदिल्लीतः भोगापुरम् विमानपत्तनं प्रति आगच्छन्। मुख्यमंत्री चन्द्रबाबू नायडू महोदयेन भोगापुरम् विमानपत्तने प्रथमानां विमानस्य अवतरणम् विमानपत्तनस्य इतिहासे मिलस्तम्भ इति निरुक्तम्। एतत् हरितक्षेत्र अन्तरराष्ट्रीयविमानपत्तनस्य उद्घाटनम् जून मासस्य षट्विंशे दिवसे भविष्यति।

एतस्मिन् सन्दर्भे मुख्यमंत्री चन्द्रबाबू नायडू इत्यनेन उक्तम् यत् आन्ध्रप्रदेशे नागरिकविमानयानेन सह अन्यः अपि ऐतिहासिकः मिलस्तम्भः स्थापितः। प्रथमानां मान्यतापरीक्षणविमानस्य सफलं अवतरणं शुभपरिणामः इति। उत्तरआन्ध्रप्रदेशवासिभ्यः अभिनन्दनं दत्त्वा ते अवदन् यत् अनेन प्रादेशिकसंयोजनं दृढं भविष्यति विकासोऽपि महान् भविष्यति। अस्मात् विमानपत्तनात् अस्यः वर्षस्य जूनमासादारभ्य वाणिज्यिकविमानसेवा आरभ्यते इति अपि उक्तम्।

अस्मिन् अवसरे केन्द्रीयनागरिकविमानयानमन्त्री राममोहन नायडू अवदन् यत् एतत् विमानपत्तनं केवलं द्विसहस्रएकशतभूम्यां निर्मितं आधारसंरचना नास्ति किन्तु एतत् विशाखापत्तनम् विशेषआर्थिकक्षेत्रं सुदृढं कर्तुं अवसरं दास्यति। अष्टादशमासेषु वयम् उत्तरआन्ध्रे महान् प्रगतिं प्राप्नवाम। चत्वारि पञ्च वा मासान्तराले विमानपत्तनस्य आरम्भः भविष्यतीति निर्णयः कृतः। विमानपत्तनसम्बद्धाः सर्वे आवश्यककार्याणि पूर्णानि। परीक्षणविमानस्य अवतरणं परियोजनायाः अन्तिमः चरणः अस्ति एष संकेतयति यत् सर्वं सम्पन्नम्।

ते अपि अवदन् यत् भविष्यति उत्तरआन्ध्रप्रदेशस्य स्वरूपपरिवर्तनं भविष्यति। केन्द्रीयबजटे विशाखापत्तनम् आर्थिकप्रदेशस्य कृते निधिः अपि प्रदत्तः अस्ति। अस्माकं प्रदेशविकासाय केन्द्रीयसर्वकारस्य सहयोगः स्वीक्रियते।

केन्द्रीयमन्त्री राममोहन नायडूः उक्तवान् यत् विशाखापत्तनम् नगरात् एतत् विमानपत्तननिर्माणारम्भदिनात् एव सड़करूपेण संयोजने प्रयासाः क्रियमाणाः सन्ति। पटलनगरतः विमानपत्तनं प्रति सप्तभिः बिन्दुभिः संयोजनं प्रदास्यते पन्थाः च एप्रैल्मासपर्यन्तं निर्माणसमाप्तिं प्राप्स्यन्ति इति सम्भाव्यते। उच्चीकृतस्य द्रुतमार्गस्य व्यवहार्यतापरीक्षा अपि क्रियते।

अस्मिन् अवसरे जीएमआरसमूहस्य उपमहाप्रबन्धकः आई. प्रभाकर राव इत्युक्तवान् यत् विजयनगरम् जनपदे भोगापुरम् नाम्नि निर्मितस्य हरितक्षेत्र अन्तरराष्ट्रीयविमानपत्तनस्य उद्घाटनं जूनमासस्य षड्विंशे दिवसे भविष्यति।

---------------

हिन्दुस्थान समाचार