Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 04 जनवरीमासः (हि. स.)।
दिल्लीनगर्याम् आयोजिते शब्दोत्सवे २०२६ इत्यस्य अन्तिमदिवसे रविवासरे राष्ट्रीयस्वयंसेवकसंघस्य अखिलभारतीयप्रचारप्रमुखः सुनील आंबेकर इत्यनेन उक्तं यत् संघस्य कार्यपद्धतेः मूलाधारः स्वयंसेवकेन माध्यमेन समाजं सशक्तं जागरूकं च कर्तुमेव अस्ति। दिल्लीमध्ये त्रिदिनात्मकउत्सवस्य अन्तिमदिने अस्मिन् मंचे अनेके वक्तारः पृथक् पृथक् विषयेषु स्वविचारान् प्रस्तुतवन्तः। कार्यक्रमस्य तृतीये दिवसे पुस्तकविमोचनं, माध्यम, चलचित्र, राजनीति इत्यादिषु विषयेषु चर्चासत्राणि सांस्कृतिककार्यक्रमाश्च आयोजिताः। अत्रानेके छात्राः चित्रकला, मूर्तिकला, संस्कृतिश्लोकगायनस्पर्धासु च भागं गृहीतवन्तः।
सुनील आंबेकर उक्तवान् यत् “संघः सरकारं दोषारोपणप्रवृत्तेः दूरं तिष्ठति, तस्य स्थाने स्वकार्यनीतौ स्वयंसेवकप्रथम इति सिद्धान्तं परमप्राधान्येन स्थापयति।” संघे शक्ति कलियुगे इति विषयेन ते अवदन् यत् संघस्य प्रथमानि पदानि सन्ति— स्वकार्यकर्तॄन् समस्याग्रस्तेषु प्रदेशेषु प्रेष्य तान् तत्र कार्ये प्रेरयितुम्। ततः अनन्तरं नागरिका अपि अस्मिन् सामूहिकप्रयासे सम्मिलितुं प्रोत्साहिताः भवन्ति।
ते बलं दत्त्वा अवदन् यत् “यत्किञ्चिद् प्रभावीसमाधानं समाजसहकारेणैव सम्भवति, न तु समाजात् पृथक् तिष्ठता।” अस्मिन्नेव प्रसङ्गे संघस्य शैलीआधारिते पुस्तके संघर्ष समाधान इत्यस्य विमोचने डॉ रतन शारदा तथा डॉ यशवंत पाठक अवदताम् यत् संघः जम्मू कश्मीर पूर्वोत्तर प्रदेशेषु पंजाबप्रदेशे च सांस्कृतिकैक्यस्य सामान्याधारं निर्माय कार्यं करोति।
ते अवदताम् यत् यदा रामजन्मभूमिआन्दोलनस्य आरम्भः अभवत् तदा सर्वेषां राजनैतिकदलीयानां भाषा विरोधसन्देहपूर्णा आसीत्। किन्तु यदा लोकजागरणं जातं तदा विशालजनमानसैः एतद्विषयं भारतस्य अस्मितया सह संबद्धं दृष्टं येन परिणामतः समग्रः वातावरणपरिवर्तः अभवत्।
अद्य संघ शक्ति कलियुगे तथा देशस्य आन्तरिक बाह्य च रक्षाविषये उद्बोधनम् इत्यादयः समकालीनवैचारिकसत्राणि आयोजितानि। अस्मिन् अवसरे त्रिदिनेषु चत्वारिंशताधिकपुस्तकानां विमोचनम्, षट् महासांस्कृतिककार्यक्रमाः, द्वौ महाकविसम्मेलनौ, ओपन माइक युवानां कृते, विविधानां प्रकाशनानां पुस्तकविक्रयमण्डपाः सुरुचि प्रभात गरुड इत्यादयः, भोजनविक्रयमण्डपाः, शताधिकवक्तारः, तद्यथा महाविद्यालयविश्वविद्यालयविद्यार्थिनश्च सम्मिलिताः।
---------------
हिन्दुस्थान समाचार