प्रकृति–संरक्षणार्थं डॉ.प्रशान्तः ‘आइकन्स् ऑफ् इण्डिया’ सम्माननेन सम्मानितः
मुम्बई, ०४ जनवरीमासः (हि.स.)।मुम्बई–ठाणे–नगरेषु वरिष्ठः पर्यावरणविद् तथा पत्रकारः डॉ.प्रशान्तः रविन्द्रः सिन्करः, य: पर्यावरण–संरक्षणे, जल–संरक्षणे तथा सामाजिक–विषयेषु निर्भीक–लेखनस्य पत्रकारितायाश्च कारणेन सुविख्याताः अस्ति, अद्य उत्तरप्रदेशे स्थि
Dr Prashant gates award for saving Nature


मुम्बई, ०४ जनवरीमासः (हि.स.)।मुम्बई–ठाणे–नगरेषु वरिष्ठः पर्यावरणविद् तथा पत्रकारः डॉ.प्रशान्तः रविन्द्रः सिन्करः, य: पर्यावरण–संरक्षणे, जल–संरक्षणे तथा सामाजिक–विषयेषु निर्भीक–लेखनस्य पत्रकारितायाश्च कारणेन सुविख्याताः अस्ति, अद्य उत्तरप्रदेशे स्थितया ‘हेल्पिङ्ग् ह्यूमन्स् फाउण्डेशन’-संस्थया प्रदत्तेन प्रतिष्ठितेन ‘आइकन्स ऑफ इण्डिया’ इति राष्ट्रिय–सम्मानेन सम्मानिताः।

उक्तः पुरस्कारः देशव्यापिनः सामाजिक–सेवा, पर्यावरण–संरक्षण तथा मानवीय–संवेदनशीलता–क्षेत्रेषु उल्लेखनीयम् योगदानं कृतवत: व्यक्तय: चित्वा प्रदीयते। डॉ.सिन्कर: पर्यावरण–संरक्षणे, जल–संसाधन–रक्षणे, वृक्ष–संरक्षणे, जैव–विविधता–संरक्षणे तथा जन–जागरूकता–वर्धने विगत–पञ्चविंशतिवर्षेभ्यः अधिककालपर्यन्तं निरन्तरं प्रभावशालीं च कार्यं कृतवान् इति मान्यतया एतत् सम्मानं प्रदत्तम्।

उच्यते यत् डॉ.प्रशान्तः सिन्करः स्वीय–लेखनैः, अनुसन्धानैः तथा प्रत्यक्ष–जन–आन्दोलनैः पर्यावरण–हानिः, अवैध–वनच्छेदनम्, नदीनां नालानां च प्रदूषणम्, नगरीकरण–कारणात् विनश्यन्ती जैव–विविधता इत्यादीन् गम्भीर–विषयान् समाजस्य ध्यानपथं नीतवान्। बहुभि: अवसरैः तस्य पत्रकारितायाः परिणामतः नीतिगत–निर्णयेषु तथा प्रशासकीय–कार्यवाहिषु प्रत्यक्षः प्रभावोऽपि दृष्टः।

एतेन राष्ट्रिय–सम्मानेन ठाणे–जनपदस्य पत्रकारिता–क्षेत्रं पर्यावरण–आन्दोलनं च नवेन गौरवेण विभूषितं जातम्। डॉ.प्रशान्तः सिन्करः विविध–स्तरेभ्यः अभिनन्दन–सन्देशान् प्राप्नोति।

अस्मिन् अवसरे मुम्बई–ठाणे–नगरेषु सुप्रसिद्धः पर्यावरणविद् डॉ. प्रशान्तः रविन्द्रः सिन्करः अवदत्—“एतत् सम्मानं केवलं मम न, अपि तु पर्यावरण–रक्षणार्थं संघर्षं कुर्वतां सर्वेषां संवेदनशील–नागरिकाणाम् अस्ति। विकासस्य नाम्ना प्रकृतेः विनाशो न भवेत्, तस्मात् अस्य संघर्षस्य अधिकं तीव्रीकरणम् आवश्यकम्।”

हिन्दुस्थान समाचार / अंशु गुप्ता