रंगमहलपरिसरे स्थानांतरितो भविष्यति गौहाटी-उच्चन्यायालयः
गुवाहाटी, 04 जनवरीमासः (हि.स.)। गौहाटी-उच्चन्यायालयस्य उत्तरगौहाटीस्थिते ऐतिहासिके रंगमहल-परिसरे स्थानान्तरण-प्रक्रिया शीघ्रमेव आरभ्यते। एषः उपायः राज्यस्य न्यायिक-आधारभूत-संरचनायाः विस्तारदिशि एकः महत्त्वपूर्णः उपक्रमः इति मन्यते। न्यायिक-सूत्र
रंगमहलपरिसरे स्थानांतरितो भविष्यति गौहाटी-उच्चन्यायालयः


गुवाहाटी, 04 जनवरीमासः (हि.स.)।

गौहाटी-उच्चन्यायालयस्य उत्तरगौहाटीस्थिते ऐतिहासिके रंगमहल-परिसरे स्थानान्तरण-प्रक्रिया शीघ्रमेव आरभ्यते। एषः उपायः राज्यस्य न्यायिक-आधारभूत-संरचनायाः विस्तारदिशि एकः महत्त्वपूर्णः उपक्रमः इति मन्यते।

न्यायिक-सूत्रैः उक्तं यत् नूतनस्य न्यायालय-परिसरस्य शिलान्यासः 11 जनवरी दिने करिष्यते। अस्मिन् अवसरि सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः न्यायमूर्ति सूर्यकान्तः उपस्थास्यन्ति।

ऐतिहासिक-महत्त्वयुक्ते अस्मिन् रंगमहल-परिसरे उच्चन्यायालयस्य स्थानान्तरेण आधुनिक-सुविधाभिः सहितं न्यायिक-कार्याणां संचालनम् अधिकसुलभं भविष्यतीति अपेक्षा क्रियते, तेन सह वर्तमान-परिसरे वर्धमानः दाबः अपि न्यूनीकर्तुं शक्यते।

----------

हिन्दुस्थान समाचार