Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, ०४ जनवरीमास: (हि.स.)। शिमला–नगरे ऐतिहासिके रिज–क्षेत्रे तादृशं दृश्यं दृष्टिगोचरं जातं, येन हिमाचल–प्रदेशस्य सांस्कृतिक–परम्परायाः नूतनं परिचयं प्राप्तम्। शीतल–वातावरणे यदा सहस्रशः परम्परागताः हिमाचली–प्रावारा: (शॉला) एकस्मिन् काले प्रदर्शिताः, तदा एषः क्षणः केवलं आयोजन–सीमायां न अवस्थितः। सः क्षणः हिमाचलस्य शताब्द्यः पुरातनीं हस्तकरघा–परम्परां, तन्तुवायानां परिश्रमं तथा सामूहिक–प्रयासस्य प्रतीक: जातः। अस्मादेव मञ्चात् हिमाचल–प्रदेशेन ‘गिनीज्–विश्व–अभिलेखे’ स्वीयं नामाङ्कनं कृतम्।
हिमाचल–प्रदेश–सर्वकारस्य उद्योग–विभागेन एकस्मिन्नेव स्थाने अधिकतम–हस्तनिर्मित–प्रावाराणां प्रदर्शनस्य कीर्तिमानं स्थापितम्। अस्मिन् आयोजने एकस्मिन् काले चतुःसहस्रत्रयोविंशतिः (४,०२३) प्रावारा: प्रदर्शिताः, यत् गिनीज्–विश्व–अभिलेख–समित्या आधिकारिकतया सत्यापितम्। एतत् कीर्तिमानं शिमलायाम् आयोजितस्य त्रिदिवसीयस्य ‘हिम–एम्.एस्.एम्.ई.–महोत्सवस्य’ प्रथमदिने शनिवासरे स्थापितम्।अस्यां प्रदर्शिन्यां प्रदेशस्य द्वादशेभ्यः जनपदेभ्यः आगताः शिल्पिनः तथा महिला–स्वयं–सहायता–समूहाः सहभागीभूताः। कुल्लू-किन्नौर-चम्बा, काङ्गड़ा-सिरमौर–जनपदानां प्रावारा: दर्शकाणां विशेष–आकर्षण–केन्द्रं अभवन्। विभिन्न–प्रदेशीय–प्रावारेषु स्थानीय–परम्परा, वर्ण–संयोजनं तथा बुनन–कलया विशिष्टा शैली स्पष्टतया दृश्यते स्म। बहुवर्ण–नक्षत्र–रचनाः तथा जटिल–आलेखनं हिमाचलस्य बुनन–कलायाः गाम्भीर्यं दर्शयन्ति।
हिमाचली–प्रावारा: स्वगुणवत्तायाः तथा परम्परागत–निर्माण–प्रक्रियायाः कृते सुप्रसिद्धाः सन्ति। एतेषु प्रावारेषु मेष–ऊनम्, अङ्गोरा–ऊनम् तथा पश्मीना–ऊनस्य उपयोगः क्रियते। पूर्णतया हस्त–निर्मितानां एतेषान प्रावाराणां निर्माणे कदाचित् मासानां कालः अपि व्यतीतः भवति। प्रदर्शिन्यां स्थितानां प्रावाराणां मूल्यं तेषां बुनन–शैलीं तथा ऊनस्य गुणवत्तां दृष्ट्वा निर्धारितम्। कतिचन प्रावाराणां मूल्यं द्वि–लक्ष–रूप्यक–पर्यन्तं उक्तम्, यत् शिल्पिनां परिश्रमं कौशलं च सूचयति।
हिमाचले प्रावारं केवलं परिधान–वस्त्रं नास्ति। अस्य राज्यस्य सांस्कृतिक–परिचयस्य सामाजिक–परम्पराभिश्च प्रगाढतया सम्बद्ध: अस्ति। विवाहेषु, धार्मिक–अनुष्ठानेषु तथा सर्वकारी–समारोहेषु अतिथीनां प्रावार–शिरस्त्राण–धारणेन सम्मानन–परम्परा अद्यापि अनुवर्तते। अतः हिमाचली–प्रावारा: सम्मानस्य स्नेहस्य च प्रतीका: मन्यन्ते।
एतद् आयोजनं हिमाचल–प्रदेश–सर्वकारस्य उद्योग–विभागेन, हिमाचल–प्रदेश–हस्तशिल्प–हस्तकरघा–निगम–लिमिटेड्–संस्थाया सहकार्येण आयोजितम्। स्थानीय–तन्तुवायानां कलायै मञ्च–प्रदानं, परम्परागत–हस्तकरघा–संरक्षणं तथा हिमाचली–शाटिकानां वैश्विक–परिचय–प्राप्तिः एतानि सर्वकारस्य मुख्य–उद्देश्यानि आसन्। एतादृशेभ्य: आयोजनेभ्यः ग्रामीण–क्षेत्रेषु निवसन्ति तन्तुवायिनः प्रत्यक्षतया विपणै: सह सम्बद्धुमवसरं प्राप्नुवन्ति।
गिनीज्–विश्व–कीरृतिमने सम्मेलनस्य प्रमाण–पत्रं मुख्यमन्त्री सुखविन्दर–सिंह–सुक्खू–महोदयाय समर्पितम्। अस्मिन् अवसरे उद्योग–मन्त्री हर्षवर्धन–चौहानः, प्रशासनिक–सचिवाः तथा राज्य–सर्वकारस्य वरिष्ठ–अधिकारिणः उपस्थिताः आसन्। मुख्यमन्त्री एतत् सम्पूर्ण–हिमाचल–प्रदेशस्य कृते गर्वस्य क्षणं इति अवदत्। तेन उक्तं यत् अस्या उपलब्धेः माध्यमेन प्रदेशस्य हस्तकरघा–उत्पादानाम् अन्ताराष्ट्रिय–स्तरे विशेषापरिचय: प्राप्त:। मुख्यमन्त्री पुनः अवदत् यत् हिमाचलस्य हस्तकरघा–परम्परा सहस्रशः कुटुम्बानां आजीविकायाः आधारः अस्ति। राज्य–सर्वकारः तन्तुवायानां प्रशिक्षणम्, उत्तम–विपणन–सौविध्यानि तथा आधुनिक–साधनानां प्रदाने निरन्तरं प्रयत्नं करोति। एतत् कीर्तिमानं नवयुवभ्य: अपि परम्परागत–बुनन–कर्मणि संलग्नं कर्तुं प्रेरयिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani