Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०४ जनवरीमासः (हि.स.)। वेनेजुएला–देशे सम्प्रतिकाले घटितेषु घटनाक्रमेषु भारत–सर्वकारेण गभीरं चिन्ता–प्रकाशनं कृतम् तथा स्थितेः विषये समीपतः निरीक्षणं क्रियमाणम् इति उक्तम्। अस्मिन् विषये शनिवासरे विदेश–मन्त्रालयेन भारतीय–नागरिकाणां कृते परामर्शः (एडवाइजरी) अपि निर्गतः।
विदेश–मन्त्रालयस्य विज्ञप्तौ उक्तं यत् भारतं वेनेजुएला–देशस्य जनानां कल्याणाय सुरक्षायै च स्वीयं समर्थनं पुनः पुष्टिं करोति। सर्वेभ्यः सम्बन्धित–पक्षेभ्यः भारतस्य आह्वानम् अस्ति यत् ते संवादमाध्यमेन शान्तिपूर्णेन प्रकारेण समस्याः समाधानं कुर्वन्तु। क्षेत्रस्य शान्तिः स्थिरता च अवश्यं संरक्ष्येताम् इत्यपि उल्लिखितम्।
मन्त्रालयेन पुनरुक्तं यत् काराकस–नगरे स्थित: भारतीय–दूतावासः तत्रस्थितस्य भारतीय–समुदायस्य सदस्यैः सह निरन्तरं सम्पर्के अस्ति तथा सर्वासु सम्भव–सहायतासु निरन्तरं प्रवृत्तः भविष्यति।
उल्लेखनीयं यत् शनिवासरे अमेरिका–देशेन एकस्मिन् आक्रमणे वेनेजुएला–देशस्य राष्ट्रपतिः निकोलसः मादुरोः तस्य भार्या च सिलिया–फ्लोरेस इति उभौ धृत्वा अमेरिकां नीतौ। वेनेजुएला–सर्वकारेण निर्गते वक्तव्ये उक्तं यत् एषः आक्रमणः देशस्य तैल–खनिज–भाण्डाराणाम् आधिपत्यं कर्तुं कृतः इति।
हिन्दुस्थान समाचार / अंशु गुप्ता