Enter your Email Address to subscribe to our newsletters

क्रीडाकौशलेन सहैव भगवतः चिन्तनम् अपि आवश्यकम् अस्ति - प्रेमानन्दमहाराजः
मथुरा, ०४ जनवरीमासः (हि.स.)।भारतीय-महिला-क्रिकेट-दलस्य प्रसिद्धा क्रीडिका दीप्ति शर्मा वृन्दावनं गत्वा प्रख्यात-सन्तं प्रेमानन्दमहाराजं दर्शयित्वा तेषां आशीर्वादं प्राप्तवती। अस्मिन् मेलने महाराजेन क्रीडानां महत्त्वं तथा क्रीडकानां जीवने अभ्यासस्य अनिवार्य भूमिका इति विषययोः गम्भीरं चिन्तनं कृतम्।
एतस्मिन् अवसरे दीप्ति शर्मा भक्तिभावेन परिपूर्णा दृष्टा, सा महाराजस्य उपदेशान् एकाग्रचित्तेन श्रवणं चकार। अस्य संवादस्य चलच्चित्रं सामाजिक-माध्यमेषु रविवासरे शीघ्रं प्रसारितं जातम्। अस्मिन् दृश्ये विश्वस्तरीया खिलाडिनी तथा आध्यात्मिक-सन्तः इत्येतयोः मध्ये सम्पन्नः संवादः युवजनानां कृते प्रेरणास्रोतः अभवत्।
उल्लेखनीयम् यत् प्रेमानन्दमहाराजस्य शिष्यः नवलनागरी दीप्ति शर्मायाः परिचयं कुर्वन् उक्तवान् यत् भारतं विश्वचैम्पियनशिप् विजितवती अस्ति। एतत् श्रुत्वा महाराजः अत्यन्तं प्रसन्नता व्यक्तवन्तः तथा एतत् राष्ट्रस्य गौरवक्षणम् इति अभिहितवान्। महाराजः अवदत् यत् “नाममात्रेण एषः क्रीडा अस्ति, किन्तु एकस्य खिलाडिनः विजयेन सम्पूर्णं भारतं सुखं अनुभूयते।”
आगे महाराजः अवदत् यत् यदा भारतीयः खिलाडिः विजयी भवति, तदा सम्पूर्णं राष्ट्रं गौरवान्वितं अनुभवति। अन्येषां हर्षप्रदानं अपि महत् परोपकाररूपम् एव। दीप्ति शर्मायै सफलतायाः मन्त्रं दत्त्वा महाराजः अभ्यासस्य निरन्तरतायां विशेषं बलं दत्तवान्।
सः सचेतयन् अवदत् यत् बहवः खिलाडिनः विजयस्य पश्चात् अभ्यासे शैथिल्यं कुर्वन्ति तथा मनोरञ्जने समयं व्यययन्ति, येन तेषां उन्नतिः अवरुद्धा भवति। तेन उपदिष्टं यत् “विजयस्य अनन्तरम् अधिकं सावधानं भवितव्यम्। नित्याभ्यासः तथा दृढनिश्चयः एव सः मार्गः अस्ति, येन खिलाडिः सततं प्रगतिं कर्तुं शक्नोति।”
अन्ते महाराजः खिलाडिनं उपदिष्टवान् यत् क्रीडाकौशलस्य सह भगवतः चिन्तनम् अपि अत्यावश्यकम् अस्ति। अभ्यासः एव सः एकमात्रः उपायः अस्ति, येन कश्चन अपि व्यक्तिः स्वकर्मणि प्रवीणः भवितुं शक्नोति।
हिन्दुस्थान समाचार