Enter your Email Address to subscribe to our newsletters

सूरतम्, 04 जनवरीमासः (हि.स.)।
गुजरातस्य सुरतं महानगरपुलिस्या ५ जनवरीतः प्रातः ६ वादनात् ८ वादनपर्यन्तं पतङ्गविहारस्य निषेधः कृतः। सुरतः नगरपुलिसदलेन जनसाधारणादेशः जारीकृतः येन ५ जनवरीतः १६ जनवरीपर्यन्तं पतङ्गउड्डयनस्य पूर्णनिषेधः विनियुक्तः।
उत्तरायणनामकस्य उत्सवस्य आनन्दाः कतिपयवारं जनानां निरवाचीनां पक्षिणां च कृते संकटरूपा भवन्ति। पतङ्गसूत्रेण कण्ठच्छेदनम् दुर्घटनाः पक्षिणां मृत्युश्चादिभिः दूर्भाग्यघटनाभिः निवारणाय सुरतः नगरपुलिस्या कठोरः उपायः स्वीकृतः। एषा निर्णयः जनसुरक्षां पशुपक्षिसंरक्षणं च दृष्ट्वा कृतः।
सुरतः आरक्ष्यायुक्तेन अनुपम सिंह गहलोतेन प्रदत्तादेशानुसारं सार्वजनिकमार्गेषु पतङ्गउड्डयनम् जोखिमपूर्णष्वपि छत्सु पतङ्गविहारः छिन्नपतङ्गानां वा सूत्रस्य ग्रहणायमार्गे धावनं च प्रतिबद्धं भविष्यति।
नैल्योनसूत्रं चाइनीजमांजं तुक्करनामकदीपप्रदीपनञ्च विषये कठोरनिषेधः। पुलिसकमिश्नरस्य आदेशे स्पष्टं निर्दिष्टम् यत् नैल्योन सिंथेटिकद्रव्यैः काचचूर्णेन लोहमृद्भिः वा आवृतानां चाइनीजमांजस्य विक्रयः भण्डारणं उपयोगश्च पूर्णरूपेण निषिद्धः। तथा च ऑनलाइनमञ्चेषु क्रियमाणः तस्य क्रयविक्रयः आयातश्चापि अवैधः एव। आकाशे उड्डीयमानानां चाइनीज स्काईलैण्टर्न इति ख्यातानां तुक्कराणां क्रयविक्रयउड्डयनानि अपि सम्यक् निषिद्धानि यतः तैः दाहदुघटनानां च सम्भावना वर्तते।
उच्चध्वनियुक्तस्य संयंत्रस्य आपत्तिजन्यलेखनयुक्तपतङ्गानां च विषयेषु अपि प्रतिबन्धः स्थापितः। पोलिसेन आदेशे निर्दिष्टं यत् जनान् व्यथयन्तः अतिध्वनियुक्तलाउडस्पीकरप्रयोगः निषिद्धः भवेत्। पतङ्गेषु कस्यान्चिद् भावनां पीडयन्ति उक्सयन्ति वा इति प्रकारस्य लेखनस्य अपि अनुमतिः न भविष्यति।
अयं सार्वजनिकादेशः ५ जनवरी २०२६ सोमवासरे आरभ्य १६ जनवरी २०२६ पर्यन्तं प्रवर्तिष्यते। अस्मिन् काले यः कश्चन एतत् आदेशं लङ्घयेत् तस्य विरुद्धं न्यायानुसारिणी कार्यवाही भविष्यति। पुलिसप्रशासनम् नागरिकान् प्रति आह्वानं करोति यत् ते सुरक्षितरूपेण उत्तरायणोत्सवं जिम्मेदारभावेन च आचरन्तु येन कस्यान्चिद् प्राणहानिः न भवेत् निर्वाचीनां पक्षिणां च संरक्षणं स्यादिति।
---------------
हिन्दुस्थान समाचार