सरदारपटेलः अखण्ड–भारतस्य शिल्पी — भूपेन्द्रपटेलः
लेउवा–पाटीदार–समित्या सूरत–नगरे ‘राजश्री–सम्मान–समारोहः’ आयोजितः
सूरत राजश्री सम्मान समारोह में मुख्यमंत्री भूपेंद्र पटेल सहित गुजरात के कई मंत्रीगण


सूरतनगरम्, ०४ जनवरीमास: (हि.स.)। मुख्यमन्त्री भूपेन्द्रपटेलः अवदत् यत् देशम् एकतायाः सूत्रे बद्धवन्तः अखण्ड–भारतस्य शिल्पी सरदारवल्लभभाई–पटेलः अस्माकं सर्वेषां सन्तति अस्ति। सरदामहोदयस्य लौह–संकल्पेन दृढया इच्छाशक्त्या च प्रेरितः पाटीदार–समाजः देशे विदेशेषु च स्वीयं विशिष्टं परिचयं निर्मितवान्। एकता एव संघटनं च पाटीदार–समाजस्य महत्तमा शक्तिः अस्ति। सः एतां टिप्पणीं सूरत–नगरे विविध–संस्थाभिः संघटनैश्च सहकार्येण समस्त–लेउवा–पाटीदार–समित्या बृहद–वराछा–क्षेत्रे आयोजिते भव्ये ‘राजश्री–सम्मान–समारोहे’ अकरोत्।

मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री नरेन्द्र–मोदिना प्रदत्तं ‘सबका साथ, सबका विकास, सबका विश्वास, सबका प्रयास’ इति मन्त्रं पाटीदार–समाजेन आत्मसात्कृतम्, तथा ‘एक–भारत–श्रेष्ठ–भारत’ इति संकल्पनायाः साकारकरणे समाजेन महत्त्वपूर्णा भूमिका निर्वूढा। शिक्षाम् आधुनिकतां च स्वीकृत्य निरन्तरं विकासं कर्तुं पाटीदार–समाजस्य विशेषता अस्ति। परिश्रम-अवशेषण-आत्मनिर्भरता–भावना च इत्येतैः कारणैः समाजः कृषि–उद्योग–व्यापार–शिक्षा–आदिषु बहुषु क्षेत्रेषु उल्लेखनीयां सफलतां प्राप्तवान्। सूरत तथा दक्षिण–गुजरातप्रदैश: हीरक–उद्योगे, वस्त्र–उद्योगे, नूतनव्यापारारम्भ–क्षेत्रे, विकसित–नगर–रूपेण च परिचयं निर्मितवान्, तत्र पाटीदार–समाजस्य परिश्रमस्य उद्यमशीलतायाश्च महत् योगदानं विद्यते।

अस्मिन् अवसरे उपमुख्यमन्त्री हर्षः सङ्घवी अवदत् यत् राज्य–सर्वकारेण सूदग्रहीतृणां विरुद्धं प्रभावी-उपायाः गृहीताः सन्ति। असमय–वृष्ट्या कृषकाणां जातायाः क्षतेः पूर्त्यर्थं दश–सहस्र–कोटि–रूप्यकाणामनुदानमुद्घोषितम्, तथा सहायता–राशिः शीघ्रमेव कृषकाणां धनागारेषु प्रत्यक्षं प्रेषिता।

केन्द्रीय–जलशक्ति–मन्त्री सी.आर.–पाटीलः अवदत् यत् जल–संरक्षणं जन–भागीदारीद्वारा जन–आन्दोलन–रूपे परिणतम्। केवलं दश–मासेषु प्रायः पञ्च–त्रिंशत्–लक्ष–जल–संरक्षण–संरचनाः निर्मिताः, तच्च विना सर्वकारी–व्ययेन। गुजरातस्य जल–संरक्षण–मॉडल अद्य समग्रे देशे अनुसृतः। केन्द्रीय–मन्त्री डॉ.मनसुखभाई–माण्डविया अवदत् यत् सरदारमहोदय: नवयूनां कृते प्रेरणायाः प्रतीकः अस्ति, तेषां विचारैः प्रेरिताः समाज–सेवायाः मार्गे निरन्तरम् अग्रे गमनम् अस्माकं दायित्वम्।

कृषि–मन्त्री जितुभाई–वाघाणी अवदत् यत् पाटीदार–समाजेन कठोर–परिश्रमात् ग्रामाः आर्थिकतया सबलीकृताः, तथा सुशासनकारणेन अद्य ग्रामीण–क्षेत्रेषु सकारात्मकं परिवर्तनं दृश्यते। कार्यक्रमे गुजरात–महिला–मोर्चायाः प्रदेश–अध्यक्षाः अञ्जुबेन–वेकरिया, विधायकाः, सामाजिक–राजनीतिक–अग्रगण्यजनाः, हीरक–वस्त्र–उद्योगपतयः तथा पाटीदार–समाजस्य बहवः नागरिकाः उपस्थिताः आसन्।

समितेः अध्यक्षः वेलजीभाई–शेटा स्वागत–भाषणं दत्तवान्। कार्यक्रमस्य शुभारम्भः समाजसेविना तथा ‘विश्व–शंखनाद–अभियानस्य’ प्रणेता प्रकाशकुमार–वेकरियेन गगनभेदिना शंखनादेन कृतः।

समारोहान्तर्गतं लोक–साहित्येन अलङ्कृतेषु प्रसिद्धाः कलाकाराः कीर्तिदान–गढ़वी, जिग्नेश–कविराजः, उर्वशी–रादड़िया, सुखदेव–धामेलिया, घनश्याम–लाठिया तथा हनुभा–गढ़वी स्व–प्रस्तुतिभिः जना: मन्त्रमुग्धा: अभवन्।

हिन्दुस्थान समाचार / Dheeraj Maithani