प्रधानमन्त्री मोदी अद्य वाराणस्यां ७२–तमं राष्ट्रीय–वॉलीबॉल-स्पर्धाया: उद्घाटनं करिष्यति
नव–दिल्ली, ०४ जनवरीमास: (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य मध्याह्ने १२ वादने वीडियो–सम्मेलन–माध्यमेन ७२–तम-राष्ट्रीय–वॉलीबॉल–स्पर्धायाः उद्घाटनं करिष्यति। उद्घाटन–समारोहः वाराणसी–नगरे स्थिते डा.सम्पूर्णानन्द–क्रीडा–स्थले (स्पोर्ट्स–स्टेडियम)
2f522db0fd60540c4d7d973a69893e0b_1222479575.jpg


नव–दिल्ली, ०४ जनवरीमास: (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य मध्याह्ने १२ वादने वीडियो–सम्मेलन–माध्यमेन ७२–तम-राष्ट्रीय–वॉलीबॉल–स्पर्धायाः उद्घाटनं करिष्यति। उद्घाटन–समारोहः वाराणसी–नगरे स्थिते डा.सम्पूर्णानन्द–क्रीडा–स्थले (स्पोर्ट्स–स्टेडियम) आयोजयिष्यते। अष्टदिनात्मकस्य अस्य क्रीडा–आयोजनस्य समापनं ११ जनवरी दिनाङ्के भविष्यति। एषा सूचना आधिकारिक–विज्ञप्त्यां प्रदत्ता। भारतीय–जनता–दलम् (भा.ज.पा.) एतां सूचनां एक्सपटलमाध्यमेन अपि सहभागं कृतवान्।आधिकारिक–विज्ञप्तेः अनुसारं, अस्यां प्रतियोगितायां देशस्य विविध–राज्येभ्यः संस्थाभ्यश्च प्रतिनिधित्वं कुर्वतां ५८ दलानां भागरूपेण सहस्राधिकाः (१०००+) क्रीडका: सहभागीभूताः भविष्यन्ति। अस्यां प्रतियोगितायां भारतीय–वॉलीबॉल–क्रीडायां प्रतिस्पर्धायाः, क्रीडा–भावनायाः तथा प्रतिभायाः उच्च–मानकानां प्रदर्शनं भविष्यतीति अपेक्षा वर्तते।वाराणस्यां ७२–तम-राष्ट्रीय–वॉलीबॉल–प्रतियोगितायाः आयोजनं नगरे क्रीडा–अवसंरचनायाः सुदृढीकरणं तथा एथलेटिक–विकासस्य प्रोत्साहनं सूचयति। एतद् आयोजनं प्रमुख–राष्ट्रीय–आयोजनानां केन्द्ररूपेण वाराणस्याः परिचयम् अधिकं सशक्तं करोति तथा सांस्कृतिक–क्रीडा–गतिविधीनां आतिथ्ये नगरेण वहमानायाः वर्धमान–भूमिकायाः अनुरूपम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता