Enter your Email Address to subscribe to our newsletters

प्रयागराजः, 04 जनवरीमासः (हि.स.)।
पौषपूर्णिमास्नानपर्वणि विश्वप्रसिद्धे संगमतटे प्रतिवर्षमिव भक्त्या आध्यात्मिकज्ञानस्य निनादः प्रवर्तमानः। देशस्य विविधान् प्रदेशान् निर्गत्य मासपर्यन्तं कथावाचकाः, साहित्याचार्याः, शंकराचार्याश्च स्वस्वशिबिरासु भक्तेभ्यः धर्मसम्बद्धम् आध्यात्मिकं ज्ञानं दातुं प्रारब्धवन्तः।
प्रत्येकवर्षं विद्यमानस्य माघमेलनाम्नः उत्सवस्य अन्तर्गते माघमासे सनातनधर्मसम्बद्धं धार्मिकज्ञानं दातुं देशस्य विविधान् प्रदेशानागताः सन्तो महात्मानः शंकराचार्याश्च पुनः संगमरेतस्युपरि सज्जीकृत्य स्वस्वशिबिरासु भक्तेभ्यः धर्मं च आध्यात्मिकज्ञानं च दातुं प्रवृत्ताः। एतदध्यात्मिकज्ञानं तत्र आगतानां जनानां बहुं आनन्दं जनयति।
अयोध्यावासिनः साहित्याचार्यः प्रभाशंकरपाण्डेयनामकः अवदत्—मम एषः द्वितीयः कल्पवासः। पौषपूर्णिमास्नानेन सह कर्मत्यागः क्रियते, स्नानानन्तरं च संकल्पः गृह्यते। संकल्पो कृत्वा अन्येन केनापि दत्तं भोजनं न गृह्यते। सूर्यास्तात् पूर्वं भोजनं कर्तव्यम्। भोजनानन्तरं सर्वमासं भक्तिभावेन प्रवचनश्रवणं भवति।
द्वादशवर्षानन्तरं कल्पवासिनां सैय्यादानं भवति। प्रभाशंकरपाण्डेयेनोक्तं यत् कल्पवासस्य शुभारम्भं दम्पती कुरुतः। यदि कल्पवासकाले पतिः वा पत्नी वा कश्चन स्वर्गं याति तर्हि एक एव जनः द्वादशवर्षपर्यन्तं कल्पवासव्रतं पूर्णं करोति। ततः अनन्तरं कल्पवासी सैय्यादानं कृत्वा कल्पवासः पूर्ण इति मन्यते—इति प्रचलिता श्रद्धा।
---------------
हिन्दुस्थान समाचार