व्यापारिक–मल्लयुद्ध–प्रतियोगिता (प्रोफेशनल–रेसलिङ्ग–लीग) पञ्चम–सत्रात् पूर्वं परियोजनाधिकारिणां (फ्रेञ्चाइजी) स्वामित्व–संरचनायाः घोषणाम् अकरोत्
नव–दिल्ली, ०३ जनवरीमासः (हि.स.)। भारतीय–मल्लयुद्ध–महासंघेन (WFI) मान्यता–प्राप्ता परियोजनाधिकार–आधारिता प्रतियोगिता व्यापारिक–मल्लयुद्ध–संघ: (प्रोफेशनल–रेसलिङ्ग–लीग) (PWL) इत्यस्य अग्रिम पञ्चम–सत्रस्य कृते षट् परियोजनाधिकारिणां तथा तेषां स्वामित्व–
व्यापारिक–मल्लयुद्ध–प्रतियोगिता (प्रोफेशनल–रेसलिङ्ग–लीग) पञ्चम–सत्रात् पूर्वं परियोजनाधिकारिणां (फ्रेञ्चाइजी) स्वामित्व–संरचनायाः घोषणाम् अकरोत्


नव–दिल्ली, ०३ जनवरीमासः (हि.स.)। भारतीय–मल्लयुद्ध–महासंघेन (WFI) मान्यता–प्राप्ता परियोजनाधिकार–आधारिता प्रतियोगिता व्यापारिक–मल्लयुद्ध–संघ: (प्रोफेशनल–रेसलिङ्ग–लीग) (PWL) इत्यस्य अग्रिम पञ्चम–सत्रस्य कृते षट् परियोजनाधिकारिणां तथा तेषां स्वामित्व–संरचनायाः औपचारिकीं घोषणां कृतवान्। एषा प्रतियोगिया जनवरी–मासे २०२६ तमे वर्षे नूतनेन स्वरूपेण सुदृढेन च प्रकारेण सह पुनरागमनं करिष्यति।

घोषितासु परियोजनाधिकरिषु दिल्ली–डेंगल–वॉरियर्स (ईज़माईट्रिप), हरियाणा–थण्डर्स् (विकास–परासरमपुरिया), टाइगर्स् ऑफ् मुम्बई–डेंगल्स् (एस्पेक्ट्–ग्रुप् तथा एपको–ग्रुप्), महाराष्ट्र–केसरी (संराज–ग्रुप्), पञ्जाब–रॉयल्स् (सीडीआर–ग्रुप्) तथा उत्तरप्रदेश–डॉमिनेटर्स् (रूबिक्स्–रियल्टी) इत्येते सन्ति। एतानि दलानि तेषां राज्येषु प्रतिनिधित्वं कुर्वन्ति, येषु मल्लयुद्धेषु सुदृढा परम्परा तथा प्रतिभायाः समृद्धः आधारः विद्यते।

पीडब्ल्यूएल–संस्थायाः मुख्य–कार्यकारी–अधिकारी अखिल–गुप्तः अवदत् यत् पञ्चमं सत्रं प्रतियोगिताया: विकासे महत्त्वपूर्णं सोपानं सिद्धं भविष्यति। सुदृढैः विविधैश्च स्वामित्व–समूहैः सह प्रतियोगिता व्यावसायिकतायाः, संरचित–क्रीडक–विकासस्य तथा दीर्घकालिक–स्थिरतायाः दिशि अग्रसरति। तस्य मतानुसारम् एषा संरचना भारतीय–मल्लयुद्ध–क्रीडायाः वैश्विक–मञ्चे नूतनं परिचयं दातुं सहायिका भविष्यति।

प्रत्येकं परियोजनाया: पृष्ठतः अनुभवी–व्यावसायिक–समूहाः उद्योग–जगतः प्रसिद्धाः व्यक्तयश्च सम्बद्धाः सन्ति, ये क्रीडा–प्रबन्धने, आधारभूत–संरचनायां, प्रौद्योगिक्यां तथा भूमिस्तरीय–विकासे विशेष–प्रवीणाः सन्ति। अनेन प्रतियोगितायै न केवलं व्यावसायिक–सुदृढता प्राप्स्यते, अपि तु क्रीडक–केन्द्रितः पारिस्थितिकी–तन्त्रस्य अपि विकासः भविष्यति।पीडब्ल्यूएल–संस्थायाः लक्ष्यं विश्वस्तरीय–प्रतिस्पर्धाया: आधुनिक–प्रतियोगिता–संरचनायाः तथा स्थायी–निवेश–आदर्शमाध्यमेन भारतदेशे व्यावसायिक–मल्लयुद्ध–क्रीडायाः नूतन–युगस्य आरम्भं कर्तुं विद्यते, यस्मिन् शीर्ष–भारतीय–अन्ताराष्ट्राय–मल्लानां सहभागिता द्रष्टुं लप्स्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता