Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०४ जनवरीमासः (हि.स.)। मार्ग–दुर्घटनासु आहतानां जनानां रक्षणार्थं केन्द्रीय–मार्ग–परिवहन–राजमार्ग–मन्त्रालयेन नागरिकान् प्रति निर्भयतया अग्रे आगन्तुम् आह्वानं कृतम्। मार्ग–दुर्घटनायाः आरम्भिके एकस्यान घण्टायां (गोल्डन्–आवर्) आहतानां साहाय्यं कुर्वन्तः ‘पथवीराः’ (गुड–समेरिटन) इति कथ्यन्ते, येषां कृते कानूनी–कार्यवाही, आरक्षी–बन्धनस्य, व्यक्तिगत–विवरण–प्रकटीकरणस्य बाध्यताभ्यः पूर्णा सुरक्षा प्रदत्ता अस्ति। सर्वकारः तादृशान् साहाय्य–कर्तॄन् आहतसमये चिकित्सालयं नयन्तः पञ्चविंशतिसहस्र–रूप्यक-साक्षात्–पुरस्कारेण तथा प्रशंसा–प्रमाणपत्रेण सम्मानयति। एकस्मै व्यक्तये वर्षे पञ्चवारं यावत् एतत् सम्मानं दातुं शक्यते।
मार्ग–परिवहन–राजमार्ग–मन्त्रालयेन २०२० तमे वर्षे मोटर–वाहन–(संशोधन)–अधिनियमः, २०१९ अन्तर्गताया: धारा १३४ए अनुसारं ‘पथवीर–नियमाः’ अधिसूचिताः। एतेषु नियमेषु साहाय्यं कुर्वतः व्यक्तेः नागरिक–दायित्वात् तथा दाण्डिक–दायित्वात् मुक्तिः सुनिश्चितीकृता अस्ति। नियमेषु स्पष्टं निर्दिष्टं यत् साहाय्य–समये नाम, आवाससंकेत:, दूरभाष–संख्या इत्यादीनां विवरणं दातुं पथवीरः न बाध्यः। आरक्षीद्वारा अनावश्यक–प्रश्नोत्तरं, बन्धनम् अथवा अवरोधः अपि निषिद्धः। चिकित्सालयेषु आपत्कालीन–उपचारस्य शुल्कं साहाय्य–कर्तुः न ग्रहीतव्यम्। यदि कश्चन पथवीरः साक्षी भवितुम् इच्छति, तर्हि तस्मात् एकवारमेव, तदपि सुविधाजनके समये स्थले च, वक्तव्यं ग्राह्यम्।
विज्ञप्तौ उक्तं यत् गम्भीर–आघातानन्तरं प्रथमा एका होरा ‘गोल्डन–आवर’ इति कथ्यते। अस्मिन् काले शीघ्रं साहाय्यं कृतं चेत् मृत्यु-आशंका स्थायी–अपाङ्गतायाश्च सम्भावनाम् अत्यधिकं न्यूनीकर्तुं शक्नोति। अस्य साहाय्यस्य कृते चिकित्सकीय–प्रशिक्षणं विशेष–उपकरणं वा आवश्यकं न, केवलं सद्भावना मानवीय–संवेदनशीलता च पर्याप्ते इति अपि स्पष्टं कृतम्।
पूर्वं केन्द्रीय–मन्त्री नितिनगडकरी अवदत् यत् मार्ग–दुर्घटनाभ्यः भारतस्य समस्त–गृह–उत्पादस्य (जीडीपी) प्रायः त्रि–प्रतिशतं क्षतिः भवति। मन्त्रालयेन उक्तं यत् बहवः मृत्यव: साहाय्यस्य अभावात् भवन्ति, यतः पथिकाः आरक्षी–न्यार–भीत्या कारणेन साहाय्यं न कुर्वन्ति। अतः मन्त्रालयेन नागरिकान् प्रति पुनः आह्वानं कृतं यत् दुर्घटनां दृष्ट्वा निर्भयतया साहाय्याय अग्रे आगच्छन्तु, यतः ‘पथवीरः’ भूत्वा कृतः एकः पदक्षेपः अपि कस्यचित् प्राणरक्षणं कर्तुं शक्नोति।
हिन्दुस्थान समाचार / अंशु गुप्ता