केजीबीवी त्यूनी इत्यस्य क्रीडांगणाय 10 लक्षं स्वीकृतम्
देहरादूनम्, 04 जनवरीमासः (हि. स.)। जिलाधिकारी सविनबंसलनामकः कस्तूरबागान्धीबालिकाविद्यालये (केजीबीवी) त्यूनी, विकासखण्डे चकराता स्थिते क्रीडाक्षेत्रस्य समतलीकरणाय जिला-खनिज-फाउण्डेशन-न्यासात् (डीएमएफ) कुलं दशलक्षरूप्यकाणां धनराशेः अनुमतिं दत्तवान्।
देहरादून जिलाधिकारी सविन बंसल।


देहरादूनम्, 04 जनवरीमासः (हि. स.)। जिलाधिकारी सविनबंसलनामकः कस्तूरबागान्धीबालिकाविद्यालये (केजीबीवी) त्यूनी, विकासखण्डे चकराता स्थिते क्रीडाक्षेत्रस्य समतलीकरणाय जिला-खनिज-फाउण्डेशन-न्यासात् (डीएमएफ) कुलं दशलक्षरूप्यकाणां धनराशेः अनुमतिं दत्तवान्। अनुमोदितराशेः मध्ये षटलक्षरूप्यकाणां प्रथमा किस्तिः निर्गताऽस्ति।

जिलाधिकारिणा उक्तं यत् क्रीडाक्षेत्रस्य समतलीकरणं छात्राणां सुरक्षितव्यवस्थितक्रीडाक्रियाणां निमित्तं अतीव महत्वपूर्णम् अस्ति। तेन न केवलं तासां शारीरिकविकासः सुदृढो भविष्यति, अपि तु मानसिकस्वास्थ्ये सर्वाङ्गीणशिक्षायां च साहाय्यं भविष्यति। एषा पहल “प्रोजेक्ट् उत्कर्ष” इत्यस्याऽधीनं सरकारीविद्यालयान् आधुनिकोपकरणैः सुसज्जितान् कर्तुं गम्यमानायाः दिशः एकं महत्वपूर्णं पादं मन्यते।

हिन्दुस्थान समाचार