Enter your Email Address to subscribe to our newsletters

फर्रुखाबादम्, 04 जनवरीमासः (हि.स.) । नवभारतात् नवउत्तरप्रदेशस्य संकल्पनां केन्द्रसर्वकारप्रदेशसर्वकारयोः च सिद्धीनां जनजनान् प्रति प्रसारणाय उद्दिश्य सूचना जनसम्पर्कविभागेन उत्तरप्रदेशे श्रीरामनगरिया मेलायां प्रतिष्ठापिता एकमासव्यापिनी चित्रप्रदर्शनी उद्घाटिता, यस्य उद्घाटनं जिलाधिकारिणा आशुतोषकुमारद्विवेदिना कृतम्।
अस्यां प्रदर्शनीयां कन्याभ्यः सम्मानाय सञ्चालितं मुख्यमन्त्री कन्यासुमंगला योजना नाम कार्यक्रमः, कौशलप्रशिक्षणरोजगारार्थं प्रधानमन्त्रि कौशलविकास योजना, युवानां स्वप्नसिद्ध्यर्थं मुख्यमन्त्री अभ्युदय योजना, सर्वसाधारणानां चिकित्सासुविधाविस्तारः, प्रधानमन्त्रि जनआरोग्य योजना आयुष्मानभारतस्य, दरिद्राणां कल्याणाय अन्त्योदय च पात्रगृहस्थी योजना, नवउद्यमानां प्रोत्साहनाय स्टार्टअप नाम योजना स्टार्ट इन यूपी, मातृशक्तेः शिक्षा सुरक्षा सम्मान इत्यादयः सर्वाः महत्वपूर्णयोजनाः विषये विस्तृता सूचना प्रदत्ता।
एतां प्रदर्शनीं द्रष्टुं बहुसंख्या अधिकारिणां राजनेतॄणां सामान्यजनानां च आगमनं भवति।
---------------
हिन्दुस्थान समाचार