वैदेशीय–पक्षिभिः समुल्लसितं पंचनदम्, संगम–तटे प्रकृतेः अद्भुतं दृश्यम्
औरैयानगरम्, ०४ जनवरीमास: (हि.स.)। उत्तरप्रदेशस्य औरैया–इटावा–जनपदयोः अन्तर्गतस्य चम्बल–सेंचुरी–क्षेत्रे शीतर्तौ प्रारब्धे पंचनद–भरेह–संगमे वैदेशीय–पक्षिणां कलरवेन सम्पूर्णं क्षेत्रं समुल्लसितम् अभवत्। सहस्रं किलोमीटरपरिमितां दीर्घयात्रां विधाय सायब
फोटो


औरैयानगरम्, ०४ जनवरीमास: (हि.स.)। उत्तरप्रदेशस्य औरैया–इटावा–जनपदयोः अन्तर्गतस्य चम्बल–सेंचुरी–क्षेत्रे शीतर्तौ प्रारब्धे पंचनद–भरेह–संगमे वैदेशीय–पक्षिणां कलरवेन सम्पूर्णं क्षेत्रं समुल्लसितम् अभवत्। सहस्रं किलोमीटरपरिमितां दीर्घयात्रां विधाय सायबेरिया–रूस–मलेशिया–देशेभ्यः आगताः एते प्रवासी–पक्षिणः प्रतिवर्षं शीतकाले अत्र निवासं कुर्वन्ति। यथा यथा शैत्यं वर्धते, तथा तथा एते सुन्दराः वर्णवर्णाः पक्षिणः आगन्तुम् आरभन्ते, येन संगम–तटस्य प्राकृतिकं सौन्दर्यमधिकं निखिलताम् उपैति।

स्थानीय–जनानां पर्यटकानां च कृते एते वैदेशीय–अतिथयः आकर्षणस्य मुख्यं केन्द्रं जाताः सन्ति। पंचनद–भरेह–संगमे प्रातःसायं पक्षिणां समूहाः आकाशे उड्डयनं कुर्वन्ति, जले च विचरन्तः दृश्यन्ते। ज्ञायते यत् स्वदेशेषु तीव्र–शैत्यस्य हिमपातस्य च आरम्भे भोजन–प्रजननयोः कठिनता वर्धते। तस्मात् चम्बल–सेंचुरी–क्षेत्रस्य नम–भूमिः, जलाशयाः, विस्तीर्णं वातावरणं च एतेषां कृते अत्यन्तमनुकूलं सिद्ध्यति।

वैदेशीय–पक्षिणाम् आगमनं दृष्ट्वा सेंचुरी–विभागेन सुरक्षा–निरीक्षणं च अधिकं कृतम्। सेंचुरी–आरक्षी प्रताप–सिंह–वर्मा, वीट–प्रभारी रोहित–सिंह–यादवः तथा नाविकः अजय–कुमारः स्वदलेन सह अहोरात्रं निरीक्षणं कुर्वन्ति। विशेषतः रात्रौ निरीक्षणं क्रियते, येन कश्चन शिकारी वा वन्य–पशुः पक्षिणां हानिं न कुर्यात्। विभागीय–कर्मचारिणः निरन्तरं कांबिङ्ग- कुर्वन्ति, येन अण्डानां नवजात–पक्षिणां च सुरक्षा सुनिश्चिता भवति।

दिसम्बर–मासस्य मध्यभागात् फरवरी–मासस्य अन्तपर्यन्तं भरेह–संगमः, पंचनद–संगमः तथा समीपस्थ–सेंचुरी–प्रदेशाः प्रवासी–पक्षिभिः पूर्णाः दृश्यन्ते। एषः कालः तेषां प्रजननाय अत्यन्तम् उपयुक्तः मन्यते। अस्मिन् एव काले मादा–पक्षिण्य: अण्डानि ददति, फरवरी–मार्च–मासयोः च शिशवः निष्क्रामन्ति। शिशवः उड्डयन–योग्याः जाताः सन्ति चेत्, तदा एते पक्षिणः शनैः शनैः स्वदेशं प्रत्यागच्छन्ति।

चम्बल–सेंचुरी–क्षेत्रस्य भरेह–संगमः, बबाईन–सेतुः, पंचनद–संगमः, पथर्रा, छिबरौली-पालीघार-सहसों-बरचोली–प्रदेशाः च प्रवासी–पक्षिणाम् उपस्थित्या समृद्धाः अभवन्।

रेंजरः कोटेश–त्यागी अवदत् यत् रूस–सायबेरिया–मलेशिया–देशेभ्यः एते पक्षिणः प्रायः द्वादश–सहस्र–किलोमीटर–पर्यन्तं दीर्घां यात्रां कृत्वा अत्र आगच्छन्ति। एक–मासात् अधिककालं यावत् यात्रानन्तरं संगम–क्षेत्रे आगत्य ते स्वनिवासं स्थापयन्ति।

अत्र आगम्यमानेषु प्रमुखेषु पक्षिषु रूडीशेलडक्-पेन्टेड्स्टॉर्क-विसलिङ्ग्टील-ब्लैकआइबिस-बारहेडेडगूज-ब्लैकनेक्डस्टॉर्क-प्लेसिसगल-टेलटिंगोकार्मोरन्ट-इत्यादयः सन्ति। रेंजरस्य कथनानुसारं सर्वे प्रवासी–पक्षिणः दिसम्बर–मासपर्यन्तं आगच्छन्ति तथा सम्पूर्णं शीतर्तुम् अत्रैव प्रवासं कुर्वन्ति। ग्रीष्मर्तौ पुनः स्वदेशं प्रत्यागच्छन्ति।

विदेशीय–पक्षिणाम् उपस्थितिः न केवलं चम्बल–सेंचुरी–क्षेत्रस्य जैव–विविधतां समृद्धां करोति, अपि तु पर्यटन–दृष्ट्या अपि अस्य प्रदेशस्य विशेषं महत्वं वर्धयति। प्रकृति–प्रेमिणां पर्यटकानां च कृते एतत् दृश्यम् उत्सव–सदृशम् एव, यत्र सर्वत्र पक्षानां प्रकृतेः अद्भुतं सौन्दर्यं च अनुभूयते।

हिन्दुस्थान समाचार / Dheeraj Maithani