Enter your Email Address to subscribe to our newsletters



सम्भलजनपद:, ०४ जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य सम्भल–जनपदे असमोली–थाना–क्षेत्रान्तर्गतस्य सलेमपुर–सालारग्रामे हाजीपुर–ग्रामे वा शासकीय–भूमौ अवैधरूपेण निर्मितं मस्जिदं मस्जिद–समित्या स्वयमेव ध्वस्तम्। ततः अनन्तरं अतिक्रमण–मुक्तां भूमिं जिला–प्रशासनं विंशतिः दरिद्र–निराश्रित–पात्र–जनानां कृते आवंटितवान्।
अस्य अवैध–निर्मितस्य मस्जिदस्य अपसारणार्थं जनपद–प्रशासनस्य पक्षत: अद्यतन–दिनाङ्कपर्यन्तं समयः प्रदत्तः आसीत्। प्रशासनात् निर्गते सूचना–पत्रे (नोटिस) प्राप्ते सति मस्जिद–समित्या स्वहस्तेन हथौडादिभिः ध्वंस–कार्यं कृत्वा अवशिष्टम् अपि अपसारितम्। रविवासरे शासनस्य एकं दलं ग्रामं सम्प्राप्तम्।
शासकीय–दलेन तत्र शासकीय–भूमौ स्थिताया: मदरसाया: विरुद्धं कार्यवाही कृत्वा अतिक्रमण–मुक्ता भूमिः विंशतिः दरिद्र–निराश्रित–पात्र–जनानां कृते आवंटिता। अस्यां कार्यवाह्यां जनपदाधिकारी डॉ.राजेन्द्र–पैंसिया तथा पुलिस–अधीक्षकः कृष्ण–कुमार–बिश्नोई इत्येताभ्यां सह बहुसंख्यकाः आरक्षी–कर्मिणः प्रशासनिक–अधिकारिणश्च उपस्थिताः आसन्।
अस्मिन् विषये जनपदाधिकारी डॉ.राजेन्द्र–पैंसिया अवदत् यत् अवैधरूपेण कृतं निर्माणं कदाचित् निश्चयेन अपसार्यते एव। अत्रापि धारा–६७ अन्तर्गतं तहसीलदार–न्यायालयस्य आदेशानुसारं कार्यवाही कृता। सः अवदत् यत् अत्र ४००० वर्ग–मीटर–परिमाणे भूमौ निर्मितस्य मदरसाया: १५०० वर्ग–मीटर–परिसरे निर्माणं कृतम् आसीत्, यस्मिन् आपणानि निर्मीय वाणिज्य–क्रियाकलापाः अपि सञ्चालिताः आसन् तथा ताभ्यः भाटकम् (किराया) अपि गृह्यते स्म। तानि सर्वाणि आपणानि अपसारितानि सन्ति, शेषं निर्मितं सभागृहम् (हॉल) अपि अपसार्यमाणम् अस्ति।
जनपदाधिकारीणां कथनानुसारं अतिक्रमण–मुक्ता भूमिः दरिद्र–निराश्रित–पात्र–जनानां कृते आवंटिता, येन तेषां निवास–व्यवस्था सुनिश्चितीक्रियते।
हिन्दुस्थान समाचार / अंशु गुप्ता