राजगढ़जनपद: : संघस्य शताब्दी-वर्षस्य उपलक्ष्ये हिन्दू-सम्मेलनस्य आयोजनम्
राजगढ़जनपद:, ०४ जनवरीमासः (हि.स.)। राष्ट्रीय–स्वयंसेवक–संघस्य शताब्दी–वर्षस्य उपलक्ष्ये रविवासरे मध्यप्रदेशस्य राजगढ़–जनपदे ब्यावरा–नगरस्य समीपस्थे करनवासस्थाने शिव–मन्दिर–परिसरे हिन्दू–सम्मेलनस्य आयोजनं कृतम्। अस्मिन् सम्मेलने हिन्दू–समाजस्य बहवः
उपलक्ष्य में हिन्दू सम्मेलन का आयोजन


राजगढ़जनपद:, ०४ जनवरीमासः (हि.स.)। राष्ट्रीय–स्वयंसेवक–संघस्य शताब्दी–वर्षस्य उपलक्ष्ये रविवासरे मध्यप्रदेशस्य राजगढ़–जनपदे ब्यावरा–नगरस्य समीपस्थे करनवासस्थाने शिव–मन्दिर–परिसरे हिन्दू–सम्मेलनस्य आयोजनं कृतम्। अस्मिन् सम्मेलने हिन्दू–समाजस्य बहवः जनाः समागताः, यत्र सामाजिक–समरसतायाः सन्देशः प्रदत्तः।

कार्यक्रमे मुख्य–वक्तारूपेण राष्ट्रीय–स्वयंसेवक–संघस्य प्रान्त–बौद्धिक–प्रमुखः प्रमोद–पंवारः उपस्थितः आसीत्। तत्रैव सन्तः जगदीश–शास्त्री तथा राजेश–सत्यम् अपि जनसमूहं सम्बोधितवन्तौ। वक्तारः समाजे समरसता, संस्काराः, राष्ट्रभावना तथा सामाजिक–दायित्वानां महत्त्वं प्रकाशयन्तः विवेचनं कृतवन्तः। आयोजने स्त्रीणां बहुला सक्रिय–सहभागिता विशेषतया दृष्टिगोचरा अभवत्।

मुख्य–वक्ता प्रमोद–पंवारः संघेन प्रतिपादितानां पञ्च–परिवर्तनानां विषये विस्तरेण अवदत्। तेषु— स्वं प्रति जागरूकता, कुटुम्ब–प्रबोधनम्, सामाजिक–समरसता, पर्यावरण–संरक्षणम् तथा नागरिक–कर्तव्यं समाविष्टानि सन्ति। सः अपि अङ्गीकृतवान् यत् एते सिद्धान्ताः जीवने आचरिताः चेत् एव सशक्तस्य, समरसस्य, आत्मनिर्भरस्य च समाजस्य निर्माणं सम्भवति।

सम्मेलन–अवसरे करनवास–ग्रामे शोभायात्रा अपि निष्क्रान्ता, यस्यां स्वयंसेवकाः ग्रामवासिनश्च उत्साहपूर्वकं सहभागं कृतवन्तः। शोभायात्राया: माध्यमेन समाजे एकतायाः सांस्कृतिक–चेतनायाश्च सन्देशः प्रसारितः। कार्यक्रमे उपस्थिताः जनाः समरसता–भोजे भागं गृहीतवन्तः, सहस्राधिकाः जनाः एकत्र उपविश्य भोजनं कृत्वा सामाजिक–समरसतायाः सजीवम् उदाहरणं प्रदर्शितवन्तः।

कार्यक्रमस्य समापनं सामाजिक–एकतायाः संकल्पेन सह अमवत्। अस्मिन् आयोजने राष्ट्रीय–स्वयंसेवक–संघस्य शताब्दी–वर्षे समरसस्य, संगठितस्य तथा सशक्तस्य हिन्दू–समाजस्य सन्देशः प्रभावी–रूपेण प्रस्तुतः अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता