Enter your Email Address to subscribe to our newsletters


गंगटोकम्, 04 जनवरीमासः (हि.स.)।न्यायमूर्तिः ए. मुहम्मदमुश्ताकः सिक्किमोच्चन्यायालयस्य मुख्यन्यायाधीकरिरूपेण शपथां स्वीकृतवान्। सिक्किमराज्यपालः ओमप्रकाशमाथुरनामधेयः अद्य राजधानीस्थिते लोको भवन् इत्यत्र आयोजिते शपथग्रहणसमारोहः मध्ये सिक्किमोच्चन्यायालयस्य नवनियुक्तं मुख्यन्यायाधीशं न्यायमूर्तिम् ए. मुहम्मदमुश्ताकम् पदगोपनीयतयोश्च शपथं कारितवान्।
लोको भवनस्य आशीर्वादहॉल् नाम्नि सभागृहे सम्पन्ने तस्मिन् शपथग्रहणसमारेहे मुख्यमन्त्री प्रेमसिंहतमाङ्गः, सिक्किमविधानसभायाः अध्यक्षः एम्. एन्. शेरपा, उपाध्यक्षाऽपि राजकुमारिथापा, सिक्किमोच्चन्यायालयस्य न्यायाधीशौ न्यायमूर्तिः मीनाक्षीमदाररै, न्यायमूर्तिः भास्करराजप्रधान, मन्त्रिणः, विधायकाः तथा अन्ये मान्यजनाः उपस्थिताः आसन्।
तत् पूर्वं सिक्किमसरकारस्य मुख्यसचिवः आर्. तेलाङ्गनामधेयः मुख्यन्यायाधीशस्य न्यायमूर्तेः मुश्ताकस्य नियुक्त्यधिसूचनां वारण्टं च उद्घोषितवान्। शपथग्रहणसमारोहानन्तरं राज्यपालः मुख्यमन्त्री च उपस्थितमान्यजनैः सह नवनियुक्तं मुख्यन्यायधीशं अभिनन्दितवन्तः।
केरलोच्चन्यायालयस्य न्यायाधीशः न्यायमूर्ति ए. मुहम्मदमुश्ताक् अद्यादारभ्य सिक्किमोच्चन्यायालयस्य मुख्यन्यायाधीशपदं स्वीकृतवान्। सः सिक्किमोच्चन्यायालयस्य पूर्वमुख्यन्यायाधीशं न्यायमूर्तिं विश्वनाथसोमद्दरं प्रतिस्थास्यति।
मुख्यमन्त्री प्रेमसिंहतमाङ्गः सिक्किमोच्चन्यायालयस्य नवनियुक्तमुख्यन्यायाधीशस्य न्यायमूर्तेः मुश्ताकस्य शपथग्रहणसमारोहे सम्मिलितः सन् हर्षं व्यक्तवान्। सः अद्य सामाजिकमाध्यमे फेसबुक् इत्यत्र प्रकाशितपोस्ट् मध्ये न्यायमूर्तेः मुश्ताकस्य प्रति स्वाः शुभाशंसाः व्यहारितवन्तः।
हिन्दुस्थान समाचार