Enter your Email Address to subscribe to our newsletters

नगर निगमस्य बायलॉज इत्यत्र हरिद्वारम् अहिन्दू मद्य-मांस निषेध क्षेत्रं घोषितं, सर्वकारेण कारणीयं पालनम् : नितिन गाैतमः
हरिद्वारम्, 04 जनवरीमासः (हि.स.)।
श्रीगङ्गासभया 2027 तमे वर्षे हरिद्वारे भविष्यति यः कुम्भमेला क्षेत्रः, तत्क्षेत्रं अहिंदूप्रवेशनिषिद्धक्षेत्ररूपेण घोषितुं मागितम्। तथैव नगरनिगमस्य नियमावलीनां कठोरपालनं कारयितुं च प्रार्थितम्।
भानुवासरे पत्रकारक्लबस्थले पत्रकारैः सह वार्तालापं कुर्वन् श्रीगङ्गासभाया अध्यक्षः नितिनगौतमनामकः अवदत् यत् 2027 तमे वर्षे हरिद्वारे कुम्भमहोत्सवस्य दिव्यं भव्यं च आयोजनं करिष्यतीति सर्वकारस्य घोषणा प्रशंसनीयाऽस्ति। 2021 तमे वर्षे जातः कुम्भमहोत्सवः कोरोनारोगस्य कारणात् बाधितोऽभवत्, येन कारणेन श्रद्धालवः कुम्भस्नानाय आगन्तुं न अशक्नुवन्, तस्य दिव्यताम् भव्यतां च द्रष्टुं न अलभन्त। अधुना ते एतस्मिन्नवसरं लभित्वा गङ्गायां श्रद्धास्नानं कृत्वा पुण्यलाभं कर्तुं शक्नुवन्ति।
नितिनगौतमः अवदत् यद्हरिद्वारकुम्भक्षेत्रं अ–हिंदूप्रवेशनिषिद्धक्षेत्ररूपेण घोषितव्यम्। नगरनिगमस्य नियमपुस्तिकायां हरिद्वारक्षेत्रं अ–हिंदूनां तथा मद्यमांसयोः निषिद्धक्षेत्ररूपेण निर्दिष्टम् अस्ति। सरकारया एतेषां नियमः पूर्णतया पालनं कर्तव्यः, येन तीर्थस्य मर्यादा संरक्षितुं शक्यते। तेनोक्तं यत् बैरागीस्थानेषु कतिपये अ–हिंदवः स्वपरिचयं निगूह्य निवसन्ति। सरकार्या एतादृशान् जनान् परीक्ष्य तेषां परिचयं निश्चित्य हरिद्वारक्षेत्रात् बहिः निष्कासयितव्यमिति कार्यं करणीयम्।
प्रेसवार्तासमये उज्ज्वलपण्डितः, प्रमोदशर्मा, विकासप्रधान इत्यादयः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार