72 तमायाः सीनियर नेशनल वॉलीबॉल चैंपियनशृंखलायाः उद्घाटन समारोहे प्राप्नोत् मुख्यमंत्री योगी
— महापौर अशोक तिवारी अकरोन्नेतृत्वम्, उत्तर प्रदेश वॉलीबॉल एसोसिएशन इत्यस्य अध्यक्षः उपमुख्यमंत्री ब्रजेश पाठकोऽकरोत् स्वागतम् वाराणसी,04 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां रविवासरात् आयोजितायां द्विसप्ततितम्या वरिष्ठ-राष्ट्रिय-वॉलीबॉ
72 वीं सीनियर नेशनल वॉलीबॉल चैंपियनशिप के मंच पर मुख्यमंत्री


— महापौर अशोक तिवारी अकरोन्नेतृत्वम्, उत्तर प्रदेश वॉलीबॉल एसोसिएशन इत्यस्य अध्यक्षः उपमुख्यमंत्री ब्रजेश पाठकोऽकरोत् स्वागतम्

वाराणसी,04 जनवरीमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणस्यां रविवासरात् आयोजितायां द्विसप्ततितम्या वरिष्ठ-राष्ट्रिय-वॉलीबॉल-चैम्पियनशृंखलायाः उद्घाटन-समारोहभागस्य निमित्तं मुख्यमन्त्री योगी आदित्यनाथः सिंगरा-स्थिते स्पोर्ट्स्-कॉम्प्लेक्स् इति स्थले आगच्छत्। उद्घाटन-समारोहस्य मंचे वाराणस्यः महापौरः अशोकतिवारी तथा उत्तरप्रदेश-वॉलीबॉल-संघस्य अध्यक्षः उपमुख्यमन्त्री च ब्रजेशपाठकः इत्येताभ्याम् मुख्यमन्त्रिणः स्वागतं कृतम्। अस्य समारोहस्य वर्चुअल-उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदिना किञ्चित्कालानन्तरं करिष्यते।

अस्यां प्रतियोगितायां देशव्यापिनः अष्टपञ्चाशत् दलानि (पुरुष-दलानि च महिला-दलानि च) भागं वहन्ति। चैम्पियनशिप-इत्यस्य संदर्भे स्विट्जरलैण्ड्-देशात् अन्तरराष्ट्रीय-वॉलीबॉल-महासंघस्य पर्यवेक्षकाः अपि उपस्थिताः सन्ति। उत्तरप्रदेश-वॉलीबॉल्-संघस्य सचिवेन सुनीलकुमारतिवारिणा उक्तं यत् प्रधानमन्त्रिणः संसदीय-क्षेत्रे वाराणस्यां प्रथमवारं वरिष्ठ-राष्ट्रीय-वॉलीबॉल्-चैम्पियनशृंखलायाः आयोजनं जातम्। अस्मिन् स्पर्धायां त्रिंशत् पुरुष-दलानि अष्टाविंशतिः च महिला-दलानि भागं वहन्ति।

---------------

हिन्दुस्थान समाचार