Enter your Email Address to subscribe to our newsletters

वाराणसी, 04 जनवरीमासः (हि.स.)।
उत्तरप्रदेशस्य वाराणसीस्थिते सम्पूर्णानन्दसंस्कृतविश्वविद्यालये शास्त्री आचार्यपाठ्यक्रमयोः पाठ्यक्रम परीक्षाः नवम जनवरीतः आरभ्यन्ते। रविवासरे एतां सूचना विश्वविद्यालयस्य कुलसचिवेन राकेशकुमारेण प्रदत्ता।
ते अवदन् यत् सेमेस्टर्परीक्षासम्बन्धे केचित् कुशीलाः व्यक्तयः कुप्रवृत्त्या छेड्छाड् अर्थात् टेम्परिंग् कृत्वा सोशलमीडियायां विशेषतः व्हाट्सएप्प् समूहेषु मिथ्यासूचनाः प्रसारयन्ति। एतत् कर्म छात्रेषु अनावश्यकं सन्त्रासं जनयति, विश्वविद्यालयस्य प्रशासनिकव्यवस्थायाः गरिमायाश्च विरुद्धं भवति।
विश्वविद्यालयप्रशासनम् स्पष्टं घोषयति यत् अधिकारिपत्रेषु किमपि परिवर्तनं कृत्वा अपवादं प्रसारितुं गंभीरः अपराधः भवति। यदि कश्चित् एतस्मिन् कृत्ये प्रत्यक्षं वा परोक्षं वा संलग्नः दृश्यते, तर्हि तस्य विरुद्धं कठोराः अनुशासनात्मकानि कार्याणि करिष्यन्ते।
---------------
हिन्दुस्थान समाचार