काश्यां मध्याह्नतः वॉलीबॉल ‘महाकुंभस्य’ शुभारंभः,प्रधानमंत्री मोदी करिष्यति वर्चुअलीमाध्यमेन उद्घाटनम्
-मुख्यमंत्री योगी आदित्यनाथः सिगराक्रीडांगणे समुस्थास्यति,क्रीडार्थिनां वर्धिष्यते उत्साहः वाराणसी, 04 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां द्वितियसप्ततितम्या वरिष्ठराष्ट्रियवालिबालप्रतियोगितायाः उद्घाटनं रविवासरे मध्यान्हसमये सिगरास्थित
प्रधानमंत्री


-मुख्यमंत्री योगी आदित्यनाथः सिगराक्रीडांगणे समुस्थास्यति,क्रीडार्थिनां वर्धिष्यते उत्साहः

वाराणसी, 04 जनवरीमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणस्यां द्वितियसप्ततितम्या वरिष्ठराष्ट्रियवालिबालप्रतियोगितायाः उद्घाटनं रविवासरे मध्यान्हसमये सिगरास्थिते स्पोर्ट्स् कॉम्प्लेक्स् इति प्रदेशे भविष्यति। प्रधानमन्त्रि नरेन्द्रमोदी मध्यान्हद्वादशवादने वर्चुअली अस्याः प्रतियोगितायाः उद्घाटनं करिष्यन्ति। अस्मिन् अवसरि मुख्यमन्त्री योगी आदित्यनाथः अपि क्रीडाङ्गणे उपस्थितः सन् क्रीडकानां उत्साहं वर्धयिष्यति। उद्घाटनसमारोहे उत्तरप्रदेशवालिबालसंघस्य अध्यक्षः तथा उपमुख्यमन्त्री ब्रजे शपाठकः अपि भविष्यतः।

अस्मिन् स्पोर्ट्स् कॉम्प्लेक्स् इत्यत्र एषा प्रतियोगिता एकादशजनवरीपर्यन्तं प्रवर्तिष्यते। अस्याम् अखिलदेशात् अष्टचत्वारिंशत् टीमाः (पुरुषटीमाः च स्त्रीटीमाः च) सहभागीभवन्ति। अस्यां चैम्पियनशिप् मध्ये स्विट्जर्लण्डदेशात् अन्ताराष्ट्रियवालिबालमहासंघस्य निरीक्षकाः अपि भविष्यन्ति।

उत्तरप्रदेशवालिबालसंघस्य सचिवः सुनीलकुमारतिवारी इत्यनेन उक्तं यत् प्रधानमन्त्रिणः संसदीयराम्ये वाराणस्यां प्रथमवारं वरिष्ठराष्ट्रियवालिबालचैम्पियनशृंखला आयोजिताऽस्ति। अस्याम् स्पर्धायां त्रिंशत् पुरुषटीमाः अष्टाविंशत् च स्त्रीटीमाः भागं करिष्यन्ति।

जिलावालिबालसंघस्य अध्यक्षः अभिमन्युसिंहः उक्तवान् यत् रेल्वे इत्येतस्य संघस्य अतिरिक्तम् सेनायाः त्रयः अङ्गाः (नौसेना स्थलसेना वायुसेना) संयुक्ततया निर्मिता टीम् अपि सहभागी भविष्यति। प्रतियोगिता एकादशजनवरीदिने समाप्यते। तेनोक्तं यत् उत्तरप्रदेशे बहुवर्षेभ्यः (सन् 1984 अनन्तरम्) एषा चैम्पियनशिप् पुनः आयोजिताऽस्ति। पूर्वाञ्चलप्रदेशस्य क्रीडाप्रेमिणां कृते एषा चैम्पियनशिप् महद् आयोजनम् अस्ति। अस्याम् अभिनिर्वाचिताः क्रीडकाः अन्ताराष्ट्रियस्पर्धासु भारतस्य प्रतिनिधित्वं करिष्यन्ति।

आयोजनसमित्याः अध्यक्षः वाराणस्याः महापौरः अशोकतिवारी अवदत् यत् साई संस्था तथा उत्तरप्रदेशस्य क्रीडाविभागस्य मध्ये सिगरास्थिते स्पोर्ट्स् कॉम्प्लेक्स् केन्द्रऑफ् एक्सिलेंस् विषये एमओयू भविष्यति। आयोजनसमित्याः पक्षेण क्रीडायाः शुभाङ्कुरः (नन्दि तथा डॉल्फिन्) अपि प्रकाशितः।

वालिबालचैम्पियनशृंखलायां देशस्य सर्वतः प्रायः 1044ाधिकाः क्रीडकाः सहभागिनो भवन्ति, यस्मिन् 540 पुरुषक्रीडकाः 504 च स्त्रीक्रीडकाः सन्ति। राष्ट्रीयस्तरस्य अस्य उद्घाटनसमारोहे सर्वेषां क्रीडानां राष्ट्रियाः अन्ताराष्ट्रियाः च क्रीडकाः सह पद्मश्रीसम्मानितव्यक्तयः अन्ये विशिष्टजनाश्च आमन्त्रिताः सन्ति।

महापौरः अशोकतिवारी अवदत् यत् एतद् आयोजनं केवलं क्रीडास्पर्धा न, अपि तु काशी नगरं “स्पोर्ट्स् टूरिज्म् हब्” इति स्वरूपेण स्थापितुं महान् चरणः अस्ति। तेन विश्वासः व्यक्तः यत् काश्याः एषा मेजबानी आगामिवर्षेषु महान्ताराष्ट्रियक्रीडायोजनानां मार्गं प्रशस्यति।

हिन्दुस्थान समाचार