काशी हिन्दू विश्वविद्यालयस्य हिन्दी विभागस्य सह-आचार्यस्य शोध पत्राय महती उपलब्धिः
वाराणसी, 04 ​जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां स्थितस्य काशीहिन्दुविश्वविद्यालयस्य (बीएचयू) हिन्दी-विभागस्य सहायक-प्राध्यापिका डॉ॰ प्रियंका सोनकर इति नवान्ते महानां सिद्धिं प्राप्तवती। डॉ॰ प्रियङ्कायाः शोधपत्रं अमेरिकायाः कैलिफोर्निया-
9386cc1b2ca47d84eaae3974ca2e9247_919274993.jpg


वाराणसी, 04 ​जनवरीमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणस्यां स्थितस्य काशीहिन्दुविश्वविद्यालयस्य (बीएचयू) हिन्दी-विभागस्य सहायक-प्राध्यापिका डॉ॰ प्रियंका सोनकर इति नवान्ते महानां सिद्धिं प्राप्तवती। डॉ॰ प्रियङ्कायाः शोधपत्रं अमेरिकायाः कैलिफोर्निया-विश्वविद्यालये लास एन्जेल्स् (यूसीएलए) इति स्थानि आयोजिते पञ्चमे “इण्टरनेशनल् कॉन्फरेंस् ऑन् हेरिटेज्/कम्यूनिटी लैङ्ग्वेजेस्” इति अन्तरराष्ट्रीय-सम्मेलने स्वीकृतम्। एतत् सम्मेलनं फेब्रुवरि-मासस्य 27–28 दिनाङ्कयोः यूसीएलए-परिसरे भविष्यति।

डॉ॰ प्रियंका सोनकरः एतस्मिन् सम्मेलने भारतात् तथा काशीहिन्दुविश्वविद्यालयात् एकैव शिक्षिका अस्ति या शोधपत्रं प्रस्तुतुं अवसरं प्राप्तवती। तस्याः शोधपत्रस्य विषयः “कल्चरल् आइडेन्टिटी ऐण्ड् प्रिजर्वेशन् ऑफ् हिन्दी ऐज् अ हेरिटेज् लैङ्ग्वेज् इन् द यूनाइटेड् स्टेट्स्” इति। एतां सूचनां बीएचयू-इति जनसम्पर्ककार्यालयेन प्रदत्ता।

उक्तं च यत् अस्मिन् शोधे अमेरिकादेशे निवसतां भारतीय-प्रवासी-समुदायानां मध्ये हिन्दी-भाषाया भूमिकायाः, तस्याः सांस्कृतिक-परिचयस्य तथा पीढीक्रमेण हिंदीभाषाया संरक्षणप्रक्रियायाः गम्भीरं अध्ययनं कृतम्। डॉ॰ सोनकर हिन्दी-भाषायाः वैश्विक-परिचयस्य, सांस्कृतिक-निरन्तरायाः तथा अन्तरराष्ट्रीय-अकादमिक-संवादस्य विषये निरन्तरं सक्रियाः समर्पिताश्च सन्ति।

अस्यां संगोष्ठ्यां प्रायः त्रिंशत्-देशानां भाषानां प्रतिनिधयः स्वस्व-भाषाया: निक्षेपविषये चिन्तां करिष्यन्ति। एषा सिद्धिः न केवलं काशीहिन्दुविश्वविद्यालयस्य हिन्दी-विभागस्य गौरववर्धिनी, अपितु हिन्दी-भाषाया अन्ताराष्ट्रिय-प्रसारस्य भारतीय-भाषायी-चेतनायाश्च अपि गर्वविषयः। प्रियंका सोनकर मऊ नाम्नः लघुग्रामात् निर्गत्य हिन्दी-भाषाया वैश्विक-परिचितेः कृते प्रयत्नशीलाः समर्पिताश्च वर्तन्ते।

---------------

हिन्दुस्थान समाचार