ए.यू.–जयपुर–मैराथन–२०२६ हेतो: सिद्धता, एकमासपर्यन्तं ‘स्वास्थ्य–महाअभियानम्’ आयोज्यते
जयपुरनगरम्, ०५ जनवरीमासः (हि.स.)। ए.यू.–जयपुर–मैराथनस्य सप्तदशम–संस्करणस्य आधिकारिक–कार्यक्रम–सारिणी (इवेंट–कैलेंडर) सोमवासरे विमोचिता। तेन सह नगरे एकमासपर्यन्तं ‘फिटनेस–महाअभियानम्’ अपि आरब्धम्। भारतस्य प्रमुखेषु धावन–आयोजनेषु गण्यते एष: मैराथनकार
जयपुर एयू जयपुर मैराथन 2026 के लिए तैयार, एक माह चलेगा फिटनेस महाअभियान


जयपुरनगरम्, ०५ जनवरीमासः (हि.स.)। ए.यू.–जयपुर–मैराथनस्य सप्तदशम–संस्करणस्य आधिकारिक–कार्यक्रम–सारिणी (इवेंट–कैलेंडर) सोमवासरे विमोचिता। तेन सह नगरे एकमासपर्यन्तं ‘फिटनेस–महाअभियानम्’ अपि आरब्धम्। भारतस्य प्रमुखेषु धावन–आयोजनेषु गण्यते एष: मैराथनकार्यक्रम:, यस्य आयोजनं वर्ल्ड–ट्रेड–पार्क–संस्थया तथा संस्कृति–युवा–संस्थया ए.यू.–स्मॉल–फाइनान्स–धनागारस्य सहयोगेन क्रियते।कार्यक्रमे मुख्यातिथिरूपेण उपस्थितः पूर्वकेन्द्रीय–कैबिनेट–मन्त्री तथा वित्त–आयोगस्य अध्यक्षः अरुण–चतुर्वेदी अवदत् यत् जयपुर–मैराथनकार्यक्रम: अद्य न केवलं नगरसीमाभ्यः बद्धा, अपि तु देशव्यापी रूपेण फिटनेस–वेलनेस–सन्देशं प्रसारयति।संस्कृति–युवा–संस्थायाः अध्यक्षः पं.सुरेश–मिश्रः अवदत् यत् यूथ–कनेक्ट तथा कॉर्पोरेट–कनेक्ट इत्यादि कार्यक्रमैः यूनां तथा व्यवसाय–वृत्तिजीविनां स्वस्थता–आन्दोलनैः सह संयोजनं क्रियते।मैराथनान्तर्गतं प्रोमोरन-टी–शर्ट–पदक–विमोचनम्-बूट–कैंप-मशाल–समारोहः-बिब–एक्सपो-पुरस्कार–समारोहश्च इत्यादयः बहवः उपक्रमाः आयोज्यन्ते। मुख्य–आयोजनं १ फरवरी–२०२६ तमे दिवसे भविष्यति। आयोजकैः सूचितं यत् अस्मिन् वर्षे ड्रीम–रन–विभागे प्रायः एक–लक्ष–प्रतिभागिनाम् अभूतपूर्वा सहभागिताया: आशा वर्तते।

हिन्दुस्थान समाचार / Dheeraj Maithani