असमप्रदेशे ५.१ तीव्रतायाः भूकम्पः — बांग्लादेशे, नेपाले, म्यांमारे, भूटाने तथा चीने अपि धरणी कम्पिता
गुवाहाटीनगरम्, ०५ जनवरीमासः (हि.स.)। अद्य प्रातःकाले पूर्वोत्तर–भारतस्य अनेकेषु राज्येषु भूकम्प–प्रकम्पनानि अनुभूतानि। प्रातः ०४.१७.४० वादने आगतस्य अस्य भूकम्पस्य तीव्रता रिक्टर–मापने ५.१ इति मापिता। अस्मात् कारणात् जनमानसेषु भीति: प्रसृता। प्रकम्प
सांकेतिक।


गुवाहाटीनगरम्, ०५ जनवरीमासः (हि.स.)। अद्य प्रातःकाले पूर्वोत्तर–भारतस्य अनेकेषु राज्येषु भूकम्प–प्रकम्पनानि अनुभूतानि। प्रातः ०४.१७.४० वादने आगतस्य अस्य भूकम्पस्य तीव्रता रिक्टर–मापने ५.१ इति मापिता। अस्मात् कारणात् जनमानसेषु भीति: प्रसृता। प्रकम्पनानि दीर्घकालं यावत् अनुभूतानि।असम–राज्यं समेत्य समीपवर्तीषु मेघालय,-नागालैण्ड-अरुणाचल-मणिपुर-मिजोरम-इत्यादिषु राज्येषु, अपि च भारतस्य प्रतिवेशी–देशेषु बांग्लादेश-नेपाल-म्यांमार-भूटान-चीन-इत्येतेष्वपि अस्य मध्यम–तीव्रतायाः भूकम्पस्य प्रभावः अनुभूतः। तथापि भूकम्पेन कस्यापि जन–धन–हानिः नाभवत् इति सूचना प्राप्ता।नेशनल–सेण्टर–फॉर–सीस्मोलॉजी इत्यनेन सूचितं यत् भूकम्पस्य केन्द्रं असम–राज्यस्य मोरीगांव–जनपदात् १४ किलोमीटर–दूरे, भूमेः ५० किलोमीटर–गहने स्थितम् आसीत्। भूकम्पस्य एपिसेण्टर २६.३७ उत्तरी–अक्षांशे तथा ९२.२९ पूर्वी–देशान्तरे अवस्थितः आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता