Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 5 जनवरीमासः (हि.स.)।
असमप्रदेशस्य मुख्यमन्त्री डॉ हिमन्तबिस्वसरमा वरिष्ठभारतीयजनतापक्षनेतारं पूर्वकेंद्रीमन्त्रिणे च डॉ मुरलीमनोहरजोशिने जन्मदिने हृदयपूर्वकाः शुभाशंसाः प्रादात्। स्वस्य सामाजिकमाध्यमसंदेशे स अवदत् यत् डॉ जोशी राष्ट्रस्य कृते दीर्घकालिकं तथा अमूल्यं योगदानं कृतवान्, स च सदैव राष्ट्रीयहितरक्षणं श्रेष्ठप्राथमिकतां स्थापयित्वा मातृभारत्याः सेवााम् अकरोत्। डॉ सरमा माङ्कामाख्यां श्रीमन्तशंकरदेवं च उद्दिश्य डॉ मुरलीमनोहरजोश्याः उत्तमस्वास्थ्यं दीर्घायुश्च प्रार्थयन् तस्य स्वस्थं मङ्गलमयं च जीवनं कामितवान्।
हिन्दुस्थान समाचार