Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, ०५ जनवरीमासः (हि.स.)। बस्तर–जनपदस्य उपायुक्त: हरिस-एस-महाशयस्य अध्यक्षतायां सोमवासरे कलेक्टरेट-इतृयत्र आस्था–कक्षे हिट–एण्ड–रन-मोटर–यान–दुर्घटना–पीडित–प्रतिकर–योजना–२०२२ अन्तर्गतं जनपद–स्तरीय–समितेः सभा आयोजिता अभवत्। अस्यां सभायां योजनान्तर्गतं पीडितेभ्यः प्रदीयमानेषु विविध–प्रकरणेषु समीक्षाः कृताः।अवसरे अस्यां समित्या—तहसील–भानपुरी–अन्तर्गतस्य मावलीगुड़ा–निवासिनी श्रीमती डूमरीका–बघेल (पतिः स्वर्गीयः पदम–बघेलः) तथा तहसील–भानपुरी–अन्तर्गतस्य ग्राम–बेसोली–निवासी श्यामलाल–कश्यपः (पिता चेरगु–रामः)—एताभ्याम् उभाभृयां द्वयं द्वयं लक्षं (२,००,०००) रूप्यकं प्रतिकर–राशेः अनुमोदनं कृतम्। एवमेव तहसील–बस्तर–अन्तर्गतस्य देवड़ा–निवासिनी श्रीमती सविता–बांधे (पतिः स्वर्गीयः घनश्याम–बांधे)—एतस्याः एक–लक्ष–पञ्चाशीतिः–सहस्र–रूप्यकाणां (१,८५,०००) प्रतिकर–राशेः अनुमोदनं कृतम्।सभायाम् उपायुक्त: हरिसमहाशयः हिट–एण्ड–रन-प्रकरणेषु पीडितेभ्यः प्रतिकर–प्रदाने सम्बद्धानां लम्बित–प्रकरणानां परीक्षण–कार्यं शीघ्रं सम्पूर्णीकृत्य प्रस्तोतुं सम्बन्धितान् अनुविभागीय–राजस्व–अधिकारिणः तथा आरक्षी–अधिकारिणः निर्देशितवान्। अपि च प्रकरणेषु आवश्यक–कर्गदानां पूर्तिः सुनिश्चितीकरणीयेत्यपि निर्देशाः दत्ताः।सभायां जनपद–स्तरीय–समितेः सदस्य–अधिकारिणः तथा बीमा–संस्था–प्रतिनिधयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani