मरार पटेल समाजः सहकारितायाः भावना प्रत्येकस्मिन् जने विद्यमानः : उपमुख्यमंत्री विजय शर्मा
उपमुख्यमंत्री घड़ी चौक रायपुर में आयोजित माता शाकम्बरी की जयंती समारोह में हुए शामिल
उपमुख्यमंत्री शर्मा माता शाकम्बरी जयंती कार्यक्रम में शामिल हुए


उपमुख्यमंत्री शर्मा माता शाकम्बरी जयंती कार्यक्रम में शामिल हुए


उपमुख्यमंत्री शर्मा माता शाकम्बरी जयंती कार्यक्रम में शामिल हुए


रायपुरम्, 05 जनवरीमासः (हि.स.)।

सोमवारे माता शाकम्बर्याः जयंती-उपलक्ष्ये रायपुर-नगरे घडिचौक-स्थले आयोजिते जयन्ती-समारोहे उपमुख्यमंत्री विजयशर्मा उपस्थिताः आसन्। तस्मिन् अवसरि ते माता शाकम्बर्याः विधिवत् पूजाऽर्चनां कृत्वा प्रदेशस्य सुख-समृद्धि-शान्ति-खुशहाल्याः कामनां च अकुर्वन्, तथा पटेल-समाजस्य जनप्रतिनिधिभिः सह मिलित्वा जनानां प्रति शाकशाकादीनाम् नि:शुल्क-वितरणम् अपि अकुर्वन्।

उपमुख्यमंत्री शर्मा समाजजनान् संबोध्य अवदत् यत् मरार-पटेल-समाजः उद्यमी, संगठित तथा सुव्यवस्थितः समाजः अस्ति। स्वस्य श्रमेण उद्यमेन च ते विशिष्टां ख्यातिं निर्मितवन्तः। अस्य समाजस्य श्रमस्य फलरूपेण बाड़ी-उत्पादनात् आरभ्य देशस्य महत्सु विपणिषु यावत् तेषां उत्पादानां प्रेषणं कृत्वा यथोचितं प्रतिफलम् प्राप्तुं तदा-कालीन-मुख्यमन्त्रिणा डॉ रमनसिंहेन शाकम्बरी-बोर्ड-नामकस्य गठनं कृतम्। तस्य अतीव उत्तमं परिणामं वयम् अलभामहि।

ते अवदन् यत् मरार-पटेल-समाजे सहकारिताया भावः प्रत्येकस्मिन् व्यक्तौ विद्यते। जनस्य मनसि स्वभावतः एव स्थितेन अस्य सहकारिताभावेन सह अग्रे गन्तव्यम्, समाजस्य प्रदेशस्य च विकासाय कार्यं कर्तव्यम्।

उपमुख्यमंत्री शर्मा मातरं शाकम्बरीम् उद्दिश्य प्रार्थितवन्तः—मातुः कृपया सर्वेषां गृहेषु धन-धान्यवर्षा भूयात्, क्षेत्र-खलिहानानि सदा लहलहतु, सर्वे नागरिकाः स्वस्थाः सुखिनश्च सन्तु, राज्यं च निरन्तरं प्रगतिपथे अग्रसरं भवतु। ते उक्तवन्तः यत् राज्य-सरकारा समाजस्य सर्वैः वर्गैः सह मिलित्वा ग्राम-गरीब-कृषक-श्रमिकानां उत्कर्षाय सततम् प्रयासं करोति।

अस्मिन् अवसरे राज्य- मरार-पटेल-समाजस्य अध्यक्षः शंकर-पटेल, रामकुमार-पटेलः, अशोक-पटेलः, परदेशी-पटेल, केके पाटिलः, ब्रह्मदेव-पटेल, राजेन्द्र-पटेलः, मोतीराम-पटेल, प्रमोद-पटेलः, बाकीराम-पटेल, ईश्वर-पटेलः इत्येते अन्ये च जनप्रतिनिधयः समाजस्य सदस्याश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार