Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०५ जनवरीमास: (हि.स.)। उत्तर–प्रदेशस्य पूर्व–मुख्यमन्त्रिणः ‘पद्म–विभूषण’ कल्याण–सिंह–बाबूजी–महाशयस्य चतुर्नवतितम–जयंती–अवसरे ०२–माल–एवेन्यू स्थिते बेसिक–शिक्षा–राज्य–मन्त्रिणः (स्वतन्त्र–प्रभार) सन्दीप–सिंह–महाशयस्य आवासे आयोजिते कार्यक्रमे उत्तर–प्रदेशस्य मुख्यमन्त्री योगी–आदित्यनाथ–महाशयः तं श्रद्धापूर्वकं नत्वा अवदत् यत्— “बाबूजी कल्याण–सिंहः सत्तां न अपि तु संकल्पं सिद्धान्तं च अचिनोत्। एष: एव तस्य सार्वजनिक–जीवनस्य महत्तम: परिचय: आसीत्।”
मुख्यमन्त्री योगी–आदित्यनाथः अवदत् यत् १९९१ तमे वर्षे यदा कल्याण–सिंहः उत्तर–प्रदेशस्य प्रथमः भाजपा–मुख्यमन्त्रीरूपेण प्रदेशस्य कार्यभारं स्वीकृतवान्, तदा राज्यम् अव्यवस्था–अराजकता–अपराध–प्रकोपैः गम्भीरैः समस्याभिः पीडितम् आसीत्। आतङ्कवादी–क्रियाकलापाः उच्छ्रिताः आसन्, शासन–योजनानां लाभः ग्रामेषु, दरिद्रेषु, कृषकेषु, महिलासु तथा यून: प्रति प्रभावी–रूपेण न प्राप्यते स्म। प्रशासनिक–तन्त्रं दुर्बलं जातम्, विधि–व्यवस्थायां च जन–विश्वासः न आसीत्।
मुख्यमन्त्रिणः कथनानुसारं, एतादृशे विषमे काले बाबूजी–नेतृत्वे पूर्ण–बहुमत–युक्ता सर्वकार: आसीत्, येन प्रदेशे सुशासन–दिशायाम् अग्रे गन्तुं नूतनः विश्वासः उत्पन्नः। प्रत्येकं प्रदेशवासिनः मनसि एषा भावना दृढीभूता यत् उत्तर–प्रदेशः अधुना दृढ–संकल्पेन विकासस्य नूतनान् सोपानान् आरुह्य गमिष्यति। तथापि अस्य कालखण्डे तस्य सर्वकारम् अस्थिरं कर्तुं राजनैतिक–षड्यन्त्राणि अपि रचितानि।
मुख्यमन्त्री योगी–आदित्यनाथः अवदत् यत् बाबूजी–कल्याण–सिंहस्य कार्यकालः श्रीराम–जन्मभूमि–आन्दोलनस्य निर्णायक–पर्वेण सह सम्बद्धः आसीत्। सः राम–भक्तानां सन्त–समाजस्य च भावनाः सम्मानयन् स्वस्य आराध्य–देवस्य प्रभोः श्रीरामस्य प्रति अपूर्वां श्रद्धां सर्वोपरि स्थापयामास। सत्तायाः चिन्तां विना सः स्वकर्तव्य–सिद्धान्तानुसारं निर्णयान् अकरोत्; आवश्यकता–काले सत्तात्यागे अपि न विरतः।
मुख्यमन्त्रिणः कथनानुसारं, बाबूजी–सर्वकारः यद्यपि अपसरित:, तथापि श्रीराम–जन्मभूमि–सम्बद्धस्य घटनाक्रमस्य नैतिकम् उत्तरदायित्वं सः स्वयमेव स्वीकृतवान्, साहसेन च स्वदायित्वान् निर्वहामास। तस्य शासनकालः सुशासन–विकास–राष्ट्रवादी–विचारधाराया: प्रवर्धनस्य एकः निर्णायकः अध्यायः इति सदा स्मरणीयः भविष्यति।
मुख्यमन्त्री योगी–आदित्यनाथः अवदत् यत् कृषक–परिवारे जन्म प्राप्तवान् बाबूजी–कल्याण–सिंहः राष्ट्रीय–स्वयंसेवक–संघस्य पाठशालातः राष्ट्रवादस्य प्रेरणां प्राप्तवान्, तां च स्वजीवनस्य मूल–मन्त्रं कृतवान्। सः जीवनपर्यन्तं तस्याः विचारधारायाः अनुरूपं कार्यं कृत्वा उत्तर–प्रदेशस्य राजनीतौ स्पष्टां दिशं प्रदत्तवान्।
अस्मिन् अवसरे कार्यक्रम–संयोजकः पूर्व–सांसदः राजवीर–सिंहः ‘राजू–भैया’ अवदत् यत्— “बाबूजी केवलं व्यक्तिः न, अपि तु एकः विचारः, एकं युगं च आसीत्। सः सत्तां लक्ष्यं न अकरोत्, किन्तु संकल्पं सिद्धान्तं च सर्वोपरि अकरोत्।” तस्य राजनीतिः समाजं संयोजयन्ती आसीत्। सः सामाजिक–न्यायं केवलं उद्घोषरूपेण न, अपि तु व्यवहार–नीतिरूपेण स्थापयामास। वंचिताश्, कृषकान्, यून: महिलाश्च सम्मानपूर्वकं मुख्यधारायां आनेतुं तस्य जीवन–संकल्पः आसीत्।
राजू–भैया अवदत् यत् बाबूजी शिक्षितवान्— “पदं न महत्, प्रतिबद्धता महती; सत्ता अस्थायिनी, संकल्पः तु स्थायी।” अयोध्यायां प्रभोः श्रीरामस्य भव्यं मन्दिरम् अद्य बाबूजी–त्याग–साहस–आत्मबलिदानस्य सजीवं प्रमाणम् अस्ति। तस्य विचारधारा अद्यापि उत्तर–प्रदेशं राष्ट्रं च एकीकृत्य अग्रे गन्तुं प्रेरयति।
अस्मिन् अवसरे मन्त्री डॉ.संजय–निषादः, बेसिक–शिक्षा–मन्त्री सन्दीप–सिंहः, भाजपा–पूर्व–अध्यक्षः चौधरी–भूपेन्द्र–सिंह–चौधरी, सांसदौ सतीश–गौतमः, मुकेश–राजपूतः, अनेके विधायकाः जनप्रतिनिधयः, गणमान्य–नागरिकाः समर्थकाः च उपस्थिताः आसन्। सर्वे अपि बाबूजी–कल्याण–सिंहस्य चित्रे पुष्पाञ्जलिम् अर्पयित्वा श्रद्धाञ्जलिं समर्पितवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता