केन्द्रीयमन्त्री गडकरीः अद्य राजधान्यां देहल्यां मध्यप्रदेशस्य मार्ग–परियोजनानां समीक्षां करिष्यति
भोपालनगरम्, ०५ जनवरीमासः (हि.स.)। केन्द्रीय–मार्ग–परिवहन–राजमार्ग–मन्त्री नितिन–गडकरी अद्य नव–दिल्ली–नगरे मध्यप्रदेशस्य राष्ट्रीय–राजमार्ग–परियोजनानां समीक्षां करिष्यति। अस्यां समीक्षायां मध्यप्रदेशस्य लोक–निर्माण–विभाग–मन्त्री राकेश–सिंहः, लोक–निर
केन्द्रीय मंत्री नितिन गडकरी (फाइल फोटो)


भोपालनगरम्, ०५ जनवरीमासः (हि.स.)। केन्द्रीय–मार्ग–परिवहन–राजमार्ग–मन्त्री नितिन–गडकरी अद्य नव–दिल्ली–नगरे मध्यप्रदेशस्य राष्ट्रीय–राजमार्ग–परियोजनानां समीक्षां करिष्यति। अस्यां समीक्षायां मध्यप्रदेशस्य लोक–निर्माण–विभाग–मन्त्री राकेश–सिंहः, लोक–निर्माण–विभागस्य वरिष्ठ–अधिकारिणः, भारतीय–राष्ट्रीय–राजमार्ग–प्राधिकरणस्य (एनएचएआई) तथा मार्ग–परिवहन–राजमार्ग–मन्त्रालयेन सम्बद्धा: अधिकारिणश्च सहभागं करिष्यन्ति।

मुख्यमन्त्री डॉ.मोहन–यादवः अवदत् यत् मध्यप्रदेशे राष्ट्रीय–राजमार्ग–संजालस्य विस्ताराय तथा सुदृढीकरणाय नूतनां गतिं प्रदातुं अद्य केन्द्रीयमन्त्री नितिन–गडकरी-इत्यस्य अध्यक्षतायां समीक्षा–सभा आयोज्यते। नव–दिल्ली–नगरे स्थिते भारत–मण्डपम्–परिसरे सायं पञ्चवादने आयोज्यमानायाम् अस्यां सभायां मध्यप्रदेशे प्रचलितानां राष्ट्रीय–राजमार्ग–परियोजनानां समीक्षा भविष्यति। एतेन केन्द्र–राज्य–सर्वकारयोः मध्ये समन्वयनम् अधिकं सुदृढं भविष्यति। अपि च सामान्य–नागरिकेभ्यः उत्तमां, सुरक्षितां तथा सुविधाजनकां मार्ग–अवसंरचनां प्रदानदिशि एतत् महत्त्वपूर्णं पादं सिद्धं भविष्यति।

डॉ.यादवः अवगतवान् यत् अस्यां सभायां मध्यप्रदेशे सञ्चालितानां तथा प्रस्तावितानां राष्ट्रीय–राजमार्ग–परियोजनानां समीक्षा विधीयते। विशेषतः भूम्यधिग्रहण–समस्या, पर्यावरण–वन–अनुमतयः अथवा अन्य–कारणैः प्रभाविताः वा विलम्बिताः परियोजनाः सविस्तरं चर्च्य, तेषां समयबद्ध–समाधानं सुनिश्चितं कर्तुं विशेषं बलं दास्यते, येन निर्माण–कार्याणि शीघ्रं गतिं प्राप्स्यन्ति।

लोक–निर्माण–विभागस्य सूचनानुसारं, मध्यप्रदेशे वर्तमानकाले भारतीय–राष्ट्रीय–राजमार्ग–प्राधिकरणस्य अधीनं ३३ कार्याणि, तथा राष्ट्रीय–राजमार्ग–विभागस्य अन्तर्गतं २८ कार्याणि प्रगतिरतानि सन्ति। एवं प्रकारेण राज्ये राष्ट्रीय–राजमार्ग–सम्बद्धाः आहत्य ६१ परियोजनाः अद्य क्रियान्वयन–अवस्थायां सन्ति। समीक्षायां वार्षिक–योजना २०२५–२६ अन्तर्गताः प्रस्ताविताः तथा प्रगतिरताः राष्ट्रीय–राजमार्ग–परियोजनाः अपि सविस्तरं चर्चास्पदाः भविष्यन्ति, येन आगामी–वित्तीय–वर्षे परियोजनानां समयबद्ध–क्रियान्वयनं, गुणवत्ता–नियन्त्रणं तथा समन्वित–निरीक्षणम् अधिकं सुदृढं कर्तुं शक्यते।

उल्लेखनीयं यत् मध्यप्रदेशे राष्ट्रीय–राजमार्गानां आहत्य दीर्घता ९,३०० किलोमीटरात् अधिका अस्ति, या राज्यस्य आर्थिक–प्रगतौ, औद्योगिक–विकासे, पर्यटन–विस्तारे तथा सुगम–सुरक्षित–यातायात–व्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति। सभायां मध्यप्रदेशस्य भविष्य–राष्ट्रीय–राजमार्ग–विकास–योजनासु अपि विचार–विमर्शः भविष्यति, येन राज्ये मार्ग–संयोजकता अधिका, सुरक्षिताः तथा आधुनिकाः कर्तुं शक्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता