Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०५ जनवरीमासः (हि.स.)। मध्यप्रदेशे महर्षि–पतञ्जलि–संस्कृत–संस्थानेन सत्र २०२६–२७ कृते वर्तमानकाले प्रचलित–पाठ्यक्रमाधारेण प्रदेशस्य शासकीय–संस्कृत–विद्यालयाः, आदर्श–संस्कृत–विद्यालयाः, अशासकीय–संस्कृत–विद्यालयाः, शासकीय–संस्कृत–महाविद्यालयाः/परम्परागत–सामान्य–संस्कृत–विद्यालयाः तथा प्राच्य–आवासीय–संस्कृत–विद्यालयाः (छात्रावास–युक्ताः) इत्येतेषां संस्कृत–विद्यालयानां संस्थानेन नूतन–सम्बद्धतां प्राप्तुम् अथवा सम्बद्धता–नवीनीकरणाय अद्य सोमवासराद् एम.पी.–ऑनलाइन–माध्यमेन आवेदन–प्रक्रिया आरभ्यते।आवेदनस्य अन्तिम–तिथि: ३० जनवरी २०२६ इति निश्चिताऽस्ति।
जनसम्पर्क–अधिकारी के.के.जोशी इत्यनेन सूचितं यत् ३० जनवरीपर्यन्तं सम्बन्धिताभिः शालाभिः एम.पी.–ऑनलाइन–माध्यमेन नूतन–सम्बद्धता अथवा सम्बद्धता–नवीनीकरण–आवेदनं कृत्वा, तस्य कर्गद–प्रतिः १५ फरवरी २०२६ पर्यन्तं अनिवार्यतया जिला–शिक्षा–अधिकारी–कार्यालये समर्पणीया अस्ति।
अस्य विषये विस्तृता सूचना महर्षि–पतञ्जलि–संस्कृत–संस्थानस्य जालस्थले उपलब्धा अस्ति। अपि च कार्यालयीन–दिवसेषु संस्थानस्य दूरभाष–संख्याः ०७५५–२५७६२१४, २५७६२१५ तथा २५७६२०९ इत्यत्र सम्पर्कं कृत्वा अपि सूचना प्राप्तुं शक्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता