Enter your Email Address to subscribe to our newsletters

मलयालम–चलच्चित्र–जगतः अत्यन्तं दुःखदं समाचारम्।
प्रसिद्धः अभिनेता तथा उत्पादन-प्रबन्धक: कन्नन–पट्टाम्बी–महाशयः दिवंगतः। सः द्विषष्टि–वर्षीयः आसीत्। चतुर्थे जनवरी–मासस्य रात्रौ प्रायः एकादशवादन–चत्वारिंशत्–निमेषे केरल–राज्यस्य कोझिकोड–नगरे स्थिते एकस्मिन् वैयक्तिकचिकित्सालये सः अन्तिम–श्वासं त्यक्तवान्। दीर्घकालात् एव सः वृक्क–सम्बद्धया रोग–पीडया ग्रस्तः आसीत्, उपचाराधीनश्च।
तस्य निधन–समाचारस्य पुष्टि: तस्य भ्रात्रा, प्रसिद्धेन चलच्चित्र–निर्मात्रा तथा अभिनेत्रा मेजर–रवि–महाशयेन कृता। मेजर–रविः सामाजिक–माध्यमेषु स्वस्य भ्रातरं प्रति भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्। मलयालम–भाषायां प्रकाशिते सन्देशे सः अवदत्— “मम प्रियः भ्राता कन्नन–पट्टाम्बी गतरात्रौ दिवंगतः।”
अन्त्येष्टि–विवरणं प्रददन् सः अवदत् यत् पञ्चमे जनवरी–मासस्य सायं चतुर्वादने, नजङ्गत्तिरी–स्थिते पट्टाम्बी–नगरस्य पैतृकनिवासे तस्य अन्त्येष्टि–संस्कारः सम्पन्नः भविष्यति। अस्य सन्देशस्य प्रकाशनेनैव मलयालम–चलच्चित्र–उद्योगे शोक: प्रसृत:, कलाकाराः प्रशंसकाश्च सामाजिक–माध्यमेषु तं प्रति श्रद्धाञ्जलिं अर्पयन्ति।
कन्नन–पट्टाम्बी मलयालम–चलच्चित्र–जगति अत्यन्तं सम्मानितं नाम आसीत्। सः अभिनयेन सह उत्पादन-प्रबन्धक–रूपेण अपि महत्त्वपूर्णं योगदानं दत्तवान्। विशेषतया सैन्य–विषयकाणि तथा राष्ट्र–सुरक्षा–सम्बद्धानि चलच्चित्राणि तेन विशेष–परिचयं प्राप्तानि।
राजीव–गान्धी–हत्या–प्रकरणम् आधृत्य निर्मिता तस्य चर्चिता चलच्चित्रकथा ‘मिशन्–९०–डेज्’ इति व्यापकां प्रशंसां प्राप्तवती। अपि च सः मोहनलाल–महाशयेन सह ‘जोसेफ’, ‘ओडियन’ तथा ऐतिहासिके महा–सफलतां प्राप्ते ‘पुलिमुरुगन’ इति चलच्चित्रे कार्यं कृतवान्। ‘पुलिमुरुगन' मलयालम–चलच्चित्र–इतिहासे प्रथमं शत–कोटि–रूप्यक–व्यवसायं कृत्वा विशेषं गौरवं प्राप्तवती।
तस्य निधनात् मलयालम–चलच्चित्र–जगत् एकं महत्त्वपूर्णं स्तम्भविहीनं जातम्; यस्य अभावः दीर्घकालं यावत् अनुभूयते।ॐ शान्तिः।
हिन्दुस्थान समाचार / अंशु गुप्ता