Enter your Email Address to subscribe to our newsletters

बक्सरम्, 05 जनवरीमासः (हि.स.)।
राजपुर-विधानसभा-क्षेत्रस्य नवनिर्वाचितः विधायकः तथा पूर्वः मन्त्री सन्तोषकुमार-निराला इति जनः सोमवारे दुल्फा-पंचायत्याः अतरवलिया-ग्रामे नागरिकाभिनन्दनम् अलभत। कार्यक्रमस्य नेतृत्वं पंचायतस्य मुखिया-प्रतिनिधिना जयप्रकाशसिंहेन कृतम्। विधायकस्य ग्रामम् आगमनेन सह कार्यकर्तारः ग्रामवासिनश्च पुष्पमालाः अंगवस्त्राणि च समर्प्य तं सस्नेहं सादरं च स्वागतवन्तः।
अभिनन्दन-समारोहे जयप्रकाशसिंहेन सह अखिलेशसिंह-कुशवाहा, सुनील-राय, नीतू-कुशवाहा, राजकिशोर-सिंह इत्येते अन्ये च कार्यकर्तारः सम्मिलिताः आसन्।
अस्मिन् अवसरे विधायकः ग्रामजनैः सह प्रत्यक्षसंवादं कृत्वा तेषां समस्याः अशृणोत्। ग्रामवासिभिः सड़क-निर्माणम्, पुल-पुलियानिर्माणम्, छठ-घाट-विकासः तथा अन्याः मूलभूत-सुविधाः इत्यादिभिः सम्बद्धाः मागपत्राणि समर्पितानि। विधायकः सर्वासां मागानां शीघ्रं समाधानं भविष्यतीति आश्वासनं दत्त्वा क्षेत्रस्य समग्र-विकासे प्रति स्वस्य प्रतिबद्धतां व्यक्तवान्।
तथैव सः दुल्फा-पंचायत्याः स्वच्छताकर्मिणः अंगवस्त्रैः सम्मान्य सम्मानितवान्, तेषां योगदानस्य प्रशंसा च अकरोत्। समारेम्भे बहुसंख्ये ग्रामीणाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार