राष्ट्रीय–विद्यालय–वाद्य–प्रतियोगितायाः राज्य–स्तरीय–चरणः सम्पन्नः, २४ जनवरीमासे दिल्ली–नगरे महानिर्णायक–प्रतियोगिता
नवदिल्ली, ०५ जनवरीमासः (हि.स.)। अस्मिन् वर्षे गणतन्त्र–दिवस–समारोहात् पूर्वं देशव्यापिरूपेण आयोजितायाः राष्ट्रीय–विद्यालय–वाद्य–प्रतियोगितायाः राज्य–स्तरीयः चरणः सफलतया सम्पन्नः। अस्यां प्रतियोगितायां देशस्य विविध–राज्येभ्यः सहस्रशः विद्यार्थिनः सह
राष्ट्रीय स्कूल बैंड प्रतियोगिता (प्रतीकात्मक फोटो)


नवदिल्ली, ०५ जनवरीमासः (हि.स.)। अस्मिन् वर्षे गणतन्त्र–दिवस–समारोहात् पूर्वं देशव्यापिरूपेण आयोजितायाः राष्ट्रीय–विद्यालय–वाद्य–प्रतियोगितायाः राज्य–स्तरीयः चरणः सफलतया सम्पन्नः। अस्यां प्रतियोगितायां देशस्य विविध–राज्येभ्यः सहस्रशः विद्यार्थिनः सहभागम् अभवन्। अधुना चयनितानि वाद्य–दलानि क्षेत्रीय–स्तरे प्रतिस्पर्धां करिष्यन्ति। २४ जनवरीमासे नवदिल्ली–नगरे महानिरृणायक-प्रतियोगिता (Grand Finale) आयोजिता भविष्यति।रक्षा–मन्त्रालयानुसारम् एषा प्रतियोगिता राज्य–स्तरः, क्षेत्रीय–स्तरः तथा राष्ट्रिय–स्तरः (अन्तिम–चरणः) इति त्रिषु चरणेषु आयोजिता वर्तते। अस्यां प्रतियोगितायां बालक–ब्रास–वाद्यदलम्, बालिका–ब्रास–वाद्यदलम्, बालक–पाइप-वाद्यदलम् तथा बालिका–पाइप–वाद्यदलम् इति चत्वारः वर्गाः सन्ति। अस्याः प्रतियोगितायाः आयोजनार्थं शिक्षा–मन्त्रालयेन २०२५ तमे वर्षे अक्टूबर–मासे दिशानिर्देशाः निर्गताः आसन्।राज्य–स्तरे ३३ राज्येभ्यः तथा केन्द्रशासित–प्रदेशेभ्यः आहत्य ८२४ विद्यालय–वाद्य–दलानि पञ्जीकृतानि आसन्, येषु ७६३ दलानां १८,०१३ विद्यार्थिनां सहभागिता अभवत्। एतेषां दलानां मध्ये ९४ दलानि क्षेत्रीय–स्तराय चयनितानि सन्ति। प्रत्येकस्मात् क्षेत्रात्—पूर्वतः, पश्चिमतः, उत्तरतः, दक्षिणतः—चत्वारि विजयी–वाद्य–दलानि चयनितानि भविष्यन्ति। ततः आहत्य १६ अन्तिम–दलानां मध्ये २४ जनवरीमासे नवदिल्ली–नगरे महा–निर्णायक–प्रतियोगिता भविष्यति।अन्तिम–चरणे दलानां प्रस्तुतीनां मूल्याङ्कनं रक्षा–मन्त्रालयेन नियुक्तेन निर्णायक–मण्डलेन करिष्यते, यस्मिन् सेना, नौसेना तथा वायुसेना–अधिकारिणः अन्तर्भविष्यन्ति।उल्लेखनीयं यत् २०२३ तमे वर्षाद् आरभ्य गणतन्त्र–दिवस–समारोहस्य अन्तर्गतं रक्षा–मन्त्रालयेन तथा शिक्षा–मन्त्रालयेन संयुक्तरूपेण राष्ट्रीय–विद्यालय–वाद्य–प्रतियोगिता आयोज्यते। वाद्य–वृन्द–सङ्गीतस्य लयः बालकेषु प्रौढेषु च उत्साहं, साहसं तथा क्रियाशीलतां जागरयति। एषा प्रतियोगिता विद्यार्थिषु देशभक्ति–भावनां, एकता–बोधं तथा समग्र–शिक्षायाः प्रेरणां पुनरुज्जीवयति।स्मरणीयं यत् २०२५ तमे वर्षे गणतन्त्र–दिवस–समारोहस्य अवसरः राज्य–स्तरे ७०९ विद्यालय–वाद्य–दलानि पञ्जीकृतानि आसन्, येषु ५६८ दलानां १३,९९९ विद्यार्थिनः प्रतियोगितायां सहभागं अकुर्वन्।

हिन्दुस्थान समाचार / अंशु गुप्ता