प्रधानमंत्री मोदी सोमनाथ मंदिरमुक्तवान् भारतीय संस्कृतेः प्रतीकम्
नवदिल्ली, 05 जनवरीमासः (हि.स.)। प्रधानमन्त्रि नरेन्द्रमोदी सोमवारे सोमनाथमन्दिरं भारतीयात्मनः शाश्वतघोषणां इति निर्दिश्य अवदत् यत् अस्माकं महान् संस्कृति आध्यात्मिकविरासत् च असंख्यैः आक्रमणैः सह साक्षिणी जाता अस्ति। तथापि देशवासिनां सामूहिकशक्त्य
प्रधानमंत्री नरेन्द्र मोदी का संदेश।


नवदिल्ली, 05 जनवरीमासः (हि.स.)।

प्रधानमन्त्रि नरेन्द्रमोदी सोमवारे सोमनाथमन्दिरं भारतीयात्मनः शाश्वतघोषणां इति निर्दिश्य अवदत् यत् अस्माकं महान् संस्कृति आध्यात्मिकविरासत् च असंख्यैः आक्रमणैः सह साक्षिणी जाता अस्ति। तथापि देशवासिनां सामूहिकशक्त्या अस्माकं सांस्कृतिकनिक्षेपः सदा अक्षुण्णा रक्षितः।

प्रधानमन्त्रिणा मोदिना स्वस्य एक्स पोष्ट नाम माध्यमे प्राचीनस्य संस्कृतश्लोकस्य उदाहरणं दत्वा गम्भीरः संदेशः प्रदत्तः।

वनानि दहतो वह्नेः सखा भवति मारुतः। स एव दीपनाशाय कृशे कस्यास्ति सौहृदम्॥

अस्य श्लोकस्य अर्थः अस्ति— यदा वन्हिः वनानि दहति तदा मारुतः तस्य सखा भवति। स एव मारुतः दुर्बलदीपस्य ज्वालयाः नाशाय भवति। कस्य नाम तादृशं सौहृदं यत् दुर्बलावस्थायां हानिकरं भवति।

प्रधानमन्त्रिणाऽनेन श्लोकेन प्रदर्शितं यत् द्वेष उन्माद च किञ्चित्कालं विनाशं कुर्वन्ति, परन्तु शक्ति विश्वास च अनन्तकालपर्यन्तं सृजनशीलतां वहतः। सोमनाथमन्दिरं पुनः पुनः विनाशं प्राप्य अपि पुनर्निर्मितं जातम्, यत् भारतीयसंस्कृतेः अटूटत्वस्य साक्ष्यात् प्रमाणं भवति।

---------------

हिन्दुस्थान समाचार