देहल्यां संस्कृतभारत्याः दशदिवसीय-आवासीय-प्रबोधनवर्गस्य शुभारम्भः
- संस्कृतम् जनभाषां कर्तुं संस्कृतभारत्याः प्रयासः देहली, ०५ जनवरीमासः। संस्कृतभाषायाः तथा भारतीय-संस्कृतेः प्रचार-प्रसारार्थं संस्कृतभारती-दिल्ली-प्रान्तेन शंकरनगरस्थिते आर. ए. गीता सहशिक्षा वरिष्ठ-माध्यमिक-विद्यालये ०२ जनवरीतः ११ जनवरीपर्यन्तं
संस्कृतभारती प्रबोधन वर्ग


संस्कृतभारती प्रबोधन वर्ग


संस्कृतभारती प्रबोधन वर्ग


- संस्कृतम् जनभाषां कर्तुं संस्कृतभारत्याः प्रयासः

देहली, ०५ जनवरीमासः।

संस्कृतभाषायाः तथा भारतीय-संस्कृतेः प्रचार-प्रसारार्थं संस्कृतभारती-दिल्ली-प्रान्तेन शंकरनगरस्थिते आर. ए. गीता सहशिक्षा वरिष्ठ-माध्यमिक-विद्यालये ०२ जनवरीतः ११ जनवरीपर्यन्तं दशदिवसीयः आवासीयः संस्कृतभाषा-प्रबोधनवर्गः आयोज्यते। अस्मिन् वर्गे देहल्याः शताधिकाः शिक्षार्थिनः संस्कृतभाषायाः अभ्यासं कुर्वन्ति।

उद्घाटन-समारोहे संस्कृतभारती-दिल्ली-प्रान्तस्य प्रशिक्षण-प्रमुखः डॉ. मनीषः जुगरानः प्रस्ताविक-उद्बोधनं कृत्वा अवदत् यत् संस्कृतभारती विश्वस्य अनेकेषु राष्ट्रेषु संस्कृतभाषायाः तथा भारतीय-संस्कृतेः संवर्धनार्थं सक्रियतया कार्यं करोति। संस्कृतं जनभाषां कर्तुं संस्थया सम्भाषण-शिबिराणि, बालकेन्द्राणि, पत्राचारद्वारा संस्कृत-शिक्षणम्, गीताशिक्षणम्, प्रबोधनवर्गाः, शास्त्र-शिक्षणवर्गाः तथा शिक्षक-प्रशिक्षणवर्गाः इत्यादयः विविधाः शिक्षणात्मकाः कार्यक्रमाः सञ्चाल्यन्ते। तस्यैव क्रमस्य अन्तर्गतं शीतकालीनः प्रबोधनवर्गः आयोजितः।

मुख्यवक्तारूपेण संस्कृतभारत्याः अखिलभारतीय-सह-संघटन-मन्त्री श्रीदत्तात्रेयः वज्रहल्ली अवदत् यत् संस्कृतभाषायाः भारतीय-संस्कृतेश्च परस्परम् अभिन्नः सम्बन्धः अस्ति। संस्कृतं मृतभाषा इति कथनम् अनुचितम्, यतः सा प्रत्येकस्य भारतीयस्य आनुवंशिकी धरोहरः अमृत-भाषा च अस्ति। आयुर्वेदः, वैदिक-गणितम्, खगोलशास्त्रम्, भारतीय-न्याय-व्यवस्था तथा नवीन-शिक्षा-नीतिः २०२०—एतेषां सर्वेषां मूलाधारः संस्कृतभाषैव इति तेन निरूपितम्।

मुख्य-अतिथिरूपेण विद्याभारती-दिल्ली-प्रान्तस्य महामन्त्री श्रीसतीशः माहेश्वरी अवदत् यत् प्रत्येकः भारतीयः इत्थं संस्कृतज्ञानम् अवश्यं धारयेत् यत् सः स्वपरिचयं, स्वकार्यं स्वस्थानं च संस्कृतभाषायां वक्तुं शक्नुयात्। संस्कृतभारती-अखिलभारतीय-न्यासस्य अध्यक्षः श्रीप्रवीणकान्तः शुभाशंसां दत्त्वा अवदत् यत् संस्कृताध्ययनं भारतस्य, भारतीयतायाः तथा तस्य ऐतिहासिक-इतिवृत्तस्य अवगमने महतीं साहाय्यं करोति।

कार्यक्रमस्य अन्ते संस्कृतभारती-दिल्ली-प्रान्तस्य अध्यक्षः श्रीवागीशभट्टः सर्वेषां मञ्चासीन-अतिथीनां उपस्थितजनानां च प्रति धन्यवाद-ज्ञापनं कृतवान्। अस्मिन् अवसरे दिल्ली-विश्वविद्यालयस्य संस्कृत-विभागस्य आचार्यः तथा संस्कृतभारती-दिल्ली-प्रान्त-मन्त्री प्रो. रणजित् बेहेरा, सह-मन्त्री श्री आशुतोषः, श्रीमती पूनम कुण्डू, प्रान्त-संघटन-मन्त्री श्री लवीशः सती इत्यादयः विश्वविद्यालय-महाविद्यालयानां बहवः आचार्याः संस्कृतभारत्याः कार्यकर्तारश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / अंशु गुप्ता