‘समुद्र–प्रताप’ इति जलपोतस्य नाम तस्य गरिमायाः शक्तेः च प्रतीकम् - राजनाथसिंहः
पणजी, ०५ जनवरीमासः (हि.स.)।रक्षामन्त्री राजनाथ–सिंहः सोमवासरे गोवा–राज्ये भारतीय–तटरक्षक–बलस्य ‘समुद्र–प्रताप’ इति जलपोतस्य जलावतरणं कृतवान्। अस्मिन् अवसरे रक्षामन्त्री अवदत् यत् ‘समुद्र–प्रताप’ इति जलपोतस्य नाम तस्य गरिमां शक्तिं च प्रतिव्यञ्जयति।
गोवा में तटरक्षक पोत ‘समुद्र प्रताप’ का जलावतरण करते रक्षामंत्री राजनाथ सिंह


पणजी, ०५ जनवरीमासः (हि.स.)।रक्षामन्त्री राजनाथ–सिंहः सोमवासरे गोवा–राज्ये भारतीय–तटरक्षक–बलस्य ‘समुद्र–प्रताप’ इति जलपोतस्य जलावतरणं कृतवान्। अस्मिन् अवसरे रक्षामन्त्री अवदत् यत् ‘समुद्र–प्रताप’ इति जलपोतस्य नाम तस्य गरिमां शक्तिं च प्रतिव्यञ्जयति। एतत् जलपोतं न केवलं प्रदूषण–नियन्त्रणाय रूपितम् अस्ति, अपि तु अन्वेषण–उद्धार–अभियानेषु, तटीय–निरीक्षणे, समुद्री–सुरक्षा–सुदृढीकरणे च महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

अस्मिन् अवसरे रक्षामन्त्री भारतीय–तटरक्षक–बलस्य अधिकारिणः सैनिकान् च अभिनन्द्य अवदत् यत् ते कालं, वातावरणं, परिस्थितिं च अविचार्य राष्ट्रस्य समुद्री–सीमानां रक्षणे निरन्तरं प्रवृत्ताः सन्ति, यत् अत्यन्तं प्रशंसनीयं वर्तते। तेन गोवा–शिपयार्ड–लिमिटेड–संस्थायाः अभियन्तॄणां कर्मकराणां च प्रशंसा अपि कृता, येन एतादृशं विशालं जलपोतं निर्मितम्।

रक्षामन्त्री अवदत् यत् एतत् भारतस्य प्रथमं स्वदेशीयरूपेण विनिर्मितं प्रदूषण–नियन्त्रण–जलपोतम् अस्ति तथा भारतीय–तटरक्षक–बलस्य अद्यपर्यन्तं यावत् सर्वातिबृहत्तम: जलपोत: अपि अस्ति। अस्य विस्थापन–भारः ४१७० टन इत्यस्ति तथा दीर्घता १५० मीटरपरिमिता वर्तते। अस्य अधिकतमा गति: २२ नौटिकल–मील–प्रतिहोरा अस्ति, या तस्य परिचालन–क्षमतां सूचयति।

अस्मिन् पोते उन्नत–प्रदूषण–अन्वेषण–प्रणाल्यः, समर्पिताः प्रदूषण–प्रतिक्रिया–नौकाः, आधुनिक–अग्निशमन–क्षमता च सन्निहिता अस्ति। अस्मिन् वायुयानशाला, विमान–सहायता–सुविधा च विद्यते, येन तस्य व्याप्तिः प्रभावशीलता च बहुगुणं वर्धते। एताभिः क्षमताभिः सह एतत् जलपोतं दुष्कर–समुद्री–परिस्थितिष्वपि स्थिरतया कार्यं कर्तुं समर्थं भविष्यति तथा वास्तविक–अभियानेषु अत्यन्तम् उपयोगी सिद्धं भविष्यति।

कार्यक्रमे गोवा–राज्यस्य मुख्यमन्त्री प्रमोद–सावन्तः, रक्षासचिवः राजेश–कुमार–सिंहः, दक्षिण–गोवा–लोकसभा–सांसदः विरयाटो–फर्नांडीसः, अन्ये नेतारः, भारतीय–तटरक्षक–बलस्य वरिष्ठ–अधिकारिणश्च उपस्थिताः आसन्।

भारतीय–तटरक्षक–बलेन उक्तं यत् अयं जलपोत: उच्च–सुविधा–युक्तानां अभियानेषु संचालनाय समर्थम् अस्ति। अयं श्लिष्टेभ्यः तैल–प्रदूषकेभ्यः पुनरुद्धारे, दूषित–पदार्थानां विश्लेषणे, दूषित–जलात् तैल–विभाजने च सक्षम: अस्ति। अयं पोत: विशेषतः प्रदूषण–नियन्त्रणार्थं निर्मितयोः द्वयोः पोतयोः एक: अस्ति तथा अत्याधुनिक–प्रौद्योगिक्या सुसज्जित:।

गोवा–शिपयार्ड–लिमिटेड–संस्थया निर्मितेऽस्मिन् पोते ६० प्रतिशताधिकं स्वदेशी–सामग्री–प्रयोगः कृतः अस्ति। अस्मिन् ३० मिलीमीटर–सी.आर.एन.–९१–भुषुण्डि, द्वे १२.७ मिलीमीटर–स्थिरीकृत–दूरनियन्त्रित–भूषुण्ड्यौ, स्वदेशीय–एकीकृत–सेतु–प्रणाली, एकीकृत–मञ्च–प्रबन्धन–प्रणाली, स्वचालित–ऊर्जा–प्रबन्धन–प्रणाली, उच्च–क्षमता–युक्तं बाह्य–अग्निशमन–तन्त्रं च अन्तर्भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता